श्रीहरिवंशपुराण विष्णुपर्व चत्वारिंशोऽध्यायः
गोमन्तारोहणम्
वैशम्पायन उवाच
तत्तु धेन्वाः पयः पीत्वा बलदर्पसमन्वितौ ।
ततस्तौ रामसहितौ प्रस्थितौ यदुपुङ्गवौ ॥ १ ॥
गोमन्तं पर्वतं द्रष्टुं मत्तनागेन्द्रगामिनौ ।
जामदग्न्यप्रदिष्टेन मार्गेण वदतां वरौ ॥ २ ॥
जामदग्न्यतृतीयास्ते त्रयस्त्रय इवाग्नयः ।
शोभयन्ति स्म पन्थानं त्रिदिवं त्रिदशा इव ॥ ३ ॥
ते चाध्वविधिना सर्वे ततो वै दिवसक्रमात् ।
गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥ ४ ॥
लताचारुविचित्रं च नानाद्रुमविभूषितम् ।
नानागुरुपिनद्धाङ्गं चित्रं चित्रमनोहरैः ॥ ५ ॥
द्विरेफगणसङ्कीर्णं शिलासंकटपादपम् ।
मत्तबर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥ ६ ॥
गगनालग्नशिखरं जलदासक्तपादपम् ।
मत्तद्विपविषाणाग्रैः परिघृष्टोपलाङ्कितम् ॥ ७ ॥
कूजद्भिश्चाण्डजगणैः समन्तात्प्रतिनादितम् ।
दरीप्रपाताम्बुरवैश्छन्नं शार्दूलतल्लजैः ॥ ८ ॥
नीलाश्मचयसंघातैर्बहुवर्णं यथा घनम् ।
धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥ ९ ॥
कीर्णं सुरगणैः कान्तैर्मैनाकमिव कामगम् ।
उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥ १० ॥
सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।
पनसाम्रातकाम्रौघैर्वेत्रस्यन्दनचन्दनैः ॥ ११ ॥
तमालैलावनयुतं मरीचक्षुपसंकुलम् ।
पिप्पलीवल्लिकलिलं चित्रमिङ्गुदिपादपैः ॥ १२ ॥
द्रुमैः सर्जरसानां च सर्वतः परिशोभितम् ।
प्रांशुशालवनैर्युक्तं बहुचित्रवनैर्युतम् ॥ १३ ॥
सर्जनिंबार्जुनवनं पाटलीकुलसंकुलम् ।
हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥ १४ ॥
जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।
पङ्कजैर्द्रुमखण्डैश्च सर्वतः प्रतिभूषितम् ॥ १५ ॥
जम्बूजंबूलवृक्षाढ्यं कद्रुकन्दलभूषितम् ।
चम्पकाशोकबकुलं बिल्वतिन्दुकशोभितम् ॥ १६ ॥
कुञ्जैश्च नागपुष्पैश्च समन्तादुपशोभितम् ।
नागयूथसमाकीर्णं मृगसंघातशोभितम् ॥ १७ ॥
सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।
गन्धर्वैश्च समायुक्तं गुह्यकैः पक्षिभिस्तथा ॥ १८ ॥
विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।
सिंहशार्दूलसंनादैः सततं प्रतिनादितम् ।
सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥ १९ ॥
स्तुतं त्रिदशगन्धर्वैरप्सरोभिरलंकृतम् ।
वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैः श्रितम् ॥ २० ॥
शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ॥
दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥ २१ ॥
प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।
काननैराननाकारैर्विशेषद्भिरिव श्रियम् ॥ २२ ॥
जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ।
स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ॥ २३ ॥
पार्श्वैरुपलकल्माषैर्मेघैरिव विभूषितम् ।
पादप्रच्छन्नभूमीभिः सपुष्पाभिः समन्ततः । २४ ॥
मण्डितं वनराजीभिः प्रमदाभिः पतिर्यथा ।
सुन्दरीभिर्दरीभिश्च कन्दराभिस्तथैव च ॥ २५ ॥
तेषु तेष्ववकाशेषु सदारमिव शोभितम् ।
औषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।
जातरूपैर्वनोद्देशैः कृत्रिमैरिव भूषितम् ॥ २६ ॥
मूलेन सुविशालेन शिरसाप्युच्छ्रितेन च ।
पृथिवीमन्तरिक्षं च गाहयन्तमिव स्थितम् ॥ २७ ॥
ते समासाद्य गोमन्तं रम्यं भूमिधरोत्तमम् ।
रुचिरं रुरुचुः सर्वे वासायामरसंनिभाः ॥ २८ ॥
रुरुहुस्ते गिरिवरं खमूर्ध्वमिव पक्षिणः ।
असज्जमाना वेगेन वैनतेयपराक्रमाः ॥ २९ ॥
ते तु तस्योत्तरं शृङ्गमारूढास्त्रिदशा इव ।
अगारं सहसा चक्रुर्मनसा निर्मितोपमम् ॥ ३० ॥
निविष्तौ यादवौ दृष्ट्वा जामदग्न्यो महामतिः ।
रामोऽभिमतमक्लिष्टमाप्रष्टुमुपचक्रमे ॥ ३१ ॥
कृष्ण यास्याम्यहं तात पुरं शूर्पारकं विभो ।
युवयोर्नास्ति वैमुख्यं संग्रामे दैवतैरपि ॥ ३२ ॥
प्राप्तवानस्मि यां प्रीतिं मार्गानुगमनादपि ।
सा मे कृष्णानुगृह्णाति शरीरमिदमव्ययम् ॥ ३३ ॥
इदं तत् स्थानमुद्दिष्टं यत्रायुधसमागमः ।
युवयोर्विहितो देवैः समयः साम्परायिकः ॥ ३४ ॥
देवानां मुख्य वैकुण्ठ विष्णो देवैरभिष्टुत ।
कृष्ण सर्वस्य लोकस्य शृणु मे नैष्ठिकं वचः ॥ ३५ ॥
यदिदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम् ।
मानुषाणां हितार्थाय लोके मानुषदेहिना ॥ ३६ ॥
तस्यायं प्रथमः कल्पः कालेन तु वियोजितः ।
जरासंधेन वै सार्धं संग्रामे समुपस्थिते ॥ ३७ ॥
तत्रायुधबलं चैव रूपं च रणकर्कशम् ।
स्वयमेवात्मना कृष्ण त्वयात्मानं विधत्स्व ह ॥ ३८ ॥
चक्रोद्यतकरं दृष्ट्वा त्वां गदापाणिमाहवे ।
चतुर्द्विगुणपीनांसं बिभ्येदपि शतक्रतुः ॥ ३९ ॥
अद्य प्रभृति ते यात्र स्वर्गोक्ता समुपस्थिता ।
पृथिव्यां पार्थिवेन्द्राणां कृतास्त्रे त्वयि मानद ॥ ४० ॥
वैनतेयस्य चाह्वानं वाहनं ध्वजकर्मणः ।
कुरु शीघ्रं महाबाहो गोविन्द वदतां वर ॥ ४१ ॥
युद्धकामा नृपतयस्त्रिदिवाभिमुखोद्यताः ।
धार्तराष्ट्रस्य वशगास्तिष्ठन्ति रणवृत्तयः ॥ ४२ ॥
राज्ञां निधनदृष्टार्था वैधव्येनाधिवासिता ।
एकवेणीधरा चेयं वसुधा त्वां प्रतीक्षते ॥ ४३ ॥
सग्रहं कृष्ण नक्षत्रं संक्षिप्यारिविमर्दन ।
त्वयि मानुष्यमापन्ने युद्धे च समुपस्थिते ॥ ४४ ॥
त्वरस्व कृष्ण युद्धाय दानवानां वधाय च ।
स्वर्गाय च नरेन्द्राणां देवतानां सुखाय च ॥ ४५ ॥
सत्कृतोऽहं त्वया कृष्ण लोकैश्च सचराचरैः ।
त्वया सत्कृतरूपेण येन सत्कृतवानहम् ॥ ४६ ॥
साधयामि महाबाहो भवतः कार्यसिद्धये ।
स्मर्तव्यश्चास्मि युद्धेषु कान्तारेषु महीक्षिताम् ॥ ४७ ॥
इत्युक्त्वा जामदग्न्यस्तु कृष्णमक्लिष्टकारिणम् । ॥
जयाशिषा वर्द्धयित्वा जगामाभीप्सितां दिशम् ॥ ४८ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
गोमन्तारोहणं नाम चत्वारिंशोऽध्यायः ॥
GO TOP
|