श्रीहरिवंशपुराण विष्णुपर्व चतुश्चत्वारिंशोऽध्यायः
शृगालाख्यराजवधः
वैशम्पायन उवाच
तानागतान्विदित्वाथ शृगालो युद्धदुर्मदः ।
पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः ॥ १ ॥
रथेनादित्यवर्णेन भास्वता रणगामिना ।
आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना ॥ २ ॥
मन्दराचलकल्पेन चित्राभरणभूषिणा ।
अक्षय्यसायकैस्तूणैः पूर्णेनार्णवघोषिणा ॥ ३ ॥
हर्यश्वेनाशुगतिनासक्तेन शिखरेष्वपि ।
हेमकूबरगर्भेण दृढाक्षेणातिशोभिना ॥ ४ ॥
सुबन्धुरेण दीप्तेन पतत्त्रिवरगामिना ।
खगतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा ॥ ५ ॥
सावित्रे नियमे पूर्णे यं ददौ सविता स्वयम् ।
आदित्यरश्मिभिरिव रश्मिभिर्यो निगृह्यते ॥ ६ ॥
तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना ।
स शृगालोऽभ्ययात्कृष्णं शलभः पावकं यथा ॥ ७ ॥
चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः । ॥
सितप्रावरणोष्णीषः पावकाकारलोचनः ॥ ८ ॥
मुहुर्मुहुर्ज्याचपलं विक्षिपन् दुःसहं धनुः ।
निर्वमन् रोषजं वायुं सानलज्वालमण्डलम् ॥ ९ ॥
भाभिर्भूषणपङ्क्तीनां दीप्तो मेरुरिवाचलः ।
रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत ॥ १० ॥
तस्यारसितशब्देन रथनेमिस्वनेन च ।
गुरुत्वेन च नाम्यन्ती चचालोर्वी भयातुरा ॥ ११ ॥
तमापतन्तं श्रीमन्तं मूर्तिमन्तमिवाचलम् ।
शृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे ॥ १२ ॥
शृगालश्चापि संरब्धः स्यन्दनेनाशुगामिना ।
समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत ॥ १३ ॥
वासुदेवं स्थितं दॄष्ट्वा शृगालो युद्धलालसः ।
अभिदुद्राव वेगेन मेघराशिरिवाचलम् ॥ १४ ॥
वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् । ॥
तद्युद्धमभवत् ताभ्यां समरे घोरदर्शनम् ।
उभाभ्यामिव मत्ताभ्यां कुञ्जराभ्यां यथा वने ॥ १५ ॥
शृगालस्त्वब्रवीत्कृष्णं समरे समुपस्थितम् ।
युद्धरागेण तेजस्वी मोहाच्चलितगौरवः ॥ १६ ॥
गोमन्ते युद्धमार्गेण यत्त्वया कृष्ण चेष्टितम् ।
अनायकानां मूर्खाणां नृपाणां दुर्बले बले ॥ १७ ॥
स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः ।
कृपणानामसत्त्वानामयुद्धानां रणोत्सवे ॥ १८ ॥
तिष्ठेदानीं यथाकामं स्थितोऽहं पार्थिवे पदे ।
क्व यास्यसि मया रुद्धो रणेष्वपरिनिष्ठितः ॥ १९ ॥
न चाहमेकं सबलो युक्तस्त्वां योद्धुमाहवे ।
अहमेकस्त्वमप्येको द्वौ युद्ध्याव रणे स्थितौ ॥ २० ॥
किं जनेन निरस्तेन त्वं वाहं च रणे स्थितः ।
धर्मयुद्धेन निधनं व्रजत्वेकतरो रणे ॥ २१ ॥
लोकेऽस्मिन् वासुदेवोऽहं भविष्यामि हते त्वयि ।
हते मयि त्वमप्येको वासुदेवो भविष्यसि ॥ २२ ॥
शृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः ।
ईर्षय्न्तं प्रहरस्वेति तमुक्त्वा चक्रमाददे ॥ २३ ॥
ततः सायकजालानि शृगालः क्रोधमूर्छितः ।
चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः ॥ २४ ॥
शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे ।
पातयामास गोविन्दे स शृगालः प्रतापवान् ॥ २५ ॥
शृगालप्रहितैरस्त्रैः पावकज्वालमालिभिः ।
निर्दयाभिहतः कृष्णः स्थितो गिरिरिवाचलः ॥ २६ ॥
सोऽस्त्रप्रहाराभिहतः किञ्चिद्रोषसमन्वितः ।
चक्रमुद्यम्य गोविन्दः शृगालस्य परिक्षिपत् ॥ २७ ॥
तं रथस्थं प्रमाणस्थं शृगालं युद्धदुर्मदम् ।
जघान समरे चक्रं जातदर्पं महाबलम् ॥ २८ ॥
ततः सुदर्शनं चक्रं पुनरायाद्गुरोः करे ।
चक्रेणोरसि निर्भिन्नः स गतासुर्गतोत्सवः ।
पपात क्षतजस्रावी शृगालोऽद्रिरिवाहतः ॥ २९ ॥
निशम्य तं निपतितं वज्रपातादिवाचलम् ।
तस्य सैन्यान्यपययुर्विमनांसि हते नृपे ॥ ३० ॥
केचित्प्रविश्य नगरं कश्मलाभिहता भृशम् ।
रुरुदुर्दुःखसंतप्ता भर्तृशोकाभिपीडिताः ॥ ३१ ॥
केचित्तत्रैव शोचन्तः स्मरन्तः सुकृतानि च ।
पतितं भूपतिं भूमौ न त्यजन्ति स्म दुःखिताः ॥ ३२ ॥
ततो मेघनिनादेन स्वरेणारिविमर्दनः ।
कृष्णः कमलपत्राक्षो जनानामभयं ददौ ॥ ३३ ॥
चक्रोचितेन हस्तेन राजताङ्गुलिपर्वणा ।
न भेतव्यम् न भेतव्यमिति तानभ्यभाषत ॥ ३४ ॥
नास्य पापस्य दोषेण निराबाधकरं जनम् ।
घातयिष्यामि समरे नेदं शूरव्रतं मतम् ॥ ३५ ॥
अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा ।
ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् ॥ ३६ ॥
चक्रनिर्दारितोरस्कं भिन्नशृङ्गमिवाचलम् ॥ ३७ ॥
विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् ।
साश्रुपातेक्षणा दीनाः शोकस्य वश्मागताः ॥ ३८ ॥
तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः ।
महिष्यस्तस्य निष्पेतुः सपुत्रा रुदिताननाः ॥ ३९ ॥
तास्तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् । ॥
स्तनानारुज्य करजैर्भृशार्ताः पर्यदेवयन् ॥ ४० ॥
उरांस्युरसिजांश्चैव शिरोजान्याकुलान्यपि ।
निर्दयं ताडयन्त्यस्ता विस्वरं रुरुदुः स्त्रियः ॥ ४१ ॥
तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः ।
पेतुरूर्ध्वभुजाः सर्वाश्छिन्नमूला लता इव ॥ ४२ ॥
तासां बाष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् ।
वारिविप्रहतानीव पङ्कजानि चकाशिरे ॥ ४३ ॥
ताः पतिं पतितं भूमौ रुदन्त्यो हृदि ताडिताः ।
लालप्यमाणाः करुणं योषितः पर्यदेवयन् ॥ ४४ ॥
पुत्रं चस्य पुरस्कृत्य बालं प्रस्रुतलोचनम् ।
शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः ॥ ४५ ॥
अयं ते वीर विक्रान्तो बालः पुत्रो न पण्डितः ।
त्वद्विहीनः कथमयं पदे स्थास्यति पैतृके ॥ ४६ ॥
कथमेकपदे त्यक्त्वा गतोऽस्यन्तःपुरं परम् ।
अतृप्तास्तव सौख्यानां किं कुर्मो विधवा वयम् ॥ ४७ ॥
तस्य पद्मावती नाम महिषी प्रमदोत्तमा ।
रुदती पुत्रमादाय वासुदेवमुपस्थिता ॥ ४८ ॥
यस्त्वया पातितो वीर रणप्रोक्तेन कर्मणा ।
तस्य प्रेतगतस्यायं पुत्रस्त्वां शरणं गतः ॥ ४९ ॥
यदि त्वां प्रणमेतासौ कुर्याद् वा शासनं तव ।
नायमेकप्रहारेण जनस्तप्येत दारुणम् ॥ ५० ॥
यदि कुर्यादयं मूढस्त्वयि बान्धवकं विधिम् ।
नैवं परीतः कृपणः सेवेत धरणीतलम् ॥ ५१ ॥
अयमस्य विपन्नस्य बान्धवस्य तवानघ ।
सन्तती रक्ष्यतां वीर पुत्रः पुत्र इवात्मजः ॥ ५२ ॥
तस्यास्तद्वचनं श्रुत्वा महिष्या यदुनन्दनः ।
मृदुपूर्वमिदं वाक्यमुवाच वदतां वरः ॥ ५३ ॥
राजपत्नि गतो रोषः सहानेन दुरात्मना ।
प्रकृतिस्था वयं जाता देवि सैषोऽस्मि बान्धवः ॥ ५४ ॥
रोषो मे विगतः साध्वि तव वाक्यैरकल्मषैः ।
योऽयं पुत्रः शृगालस्य ममाप्येष न संशयः ॥ ५५ ॥
अभयं चभिषेकं च ददाम्यस्मै सुखाय वै ।
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ॥ ५६ ॥
पितृपैतामहे राज्ये तव पुत्रोऽभिषिच्यताम् ।
ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस्तथा ॥ ५७ ॥
अभिषेकार्थमाजग्मुर्यतो वै रामकेशवौ ।
ततः सिंहासनस्थं तु राजपुत्रं जनार्दनः ॥ ५८ ॥
अभिषेकेण दिव्येन योजयामास वीर्यवान् ।
अभिषिच्य शृगालस्य करवीरपुरे सुतम् ।
कृष्णस्तदहरेवाशु प्रस्थानमभ्यरोचयत् ॥ ५९ ॥
रथेन हरियुक्तेन तेन युद्धार्जितेन वै ।
केशवः प्रस्थितोऽध्वानं वृत्रहा त्रिदिवं यथा ॥ ६० ॥
शक्रदेवोऽपि धर्मात्मा सह मात्रा परंतपः ।
सबालवृद्धयुवतीमुख्याः प्रकृतयस्तथा ॥ ६१ ॥
शिबिकायामथारोप्य शृगालं युद्धदुर्मदम् ।
संहता दूरमार्गेण पश्चिमाभिमुखा ययुः ॥ ६२ ॥
नैधनस्य विधानेन चक्रुस्ते तस्य सत्क्रियाम् ।
सत्कारं कारयामासुः पितॄणां पारलौकिकम् ॥ ६३ ॥
उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः ।
ततस्ते सलिलं दत्त्वा नामगोत्रादिकीर्तनैः ॥ ६४ ॥
पितर्युपरते घोरे शोकसम्विग्नमानसः ।
कृत्वोदकं तदा राजा प्रविवेश पुरोत्तमम् ॥ ६५ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
शृगालवधो नाम चतुश्चत्वारिंशोऽध्यायः ॥
GO TOP
|