श्रीहरिवंशपुराण विष्णुपर्व षट्चत्वारिंशोऽध्यायः
रामस्य गोकुलगमनं यमुनाकर्षणं च
वैशम्पायन उवाच
कस्यचित् त्वथ कालस्य स्मृत्वा गोपेषु सौहृदम् ।
जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ॥ १ ॥
स गतस्तत्र रम्याणि ददर्श विपुलानि वै ।
भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च ॥ २ ॥
स प्रविष्टस्तु वेगेन तं व्रजं कृष्णपूर्वजः ।
वन्येन रमणीयेन वेषेणालंकृतः प्रभुः ॥ ३ ॥
स तानभाषत प्रीत्या यथापूर्वमरिंदमः ।
गोपांस्तेनैव विधिना यथान्यायं यथावयः ॥ ४ ॥
तथैव प्राह तान् सर्वांस्तथैव परिहर्षयन् ।
तथैव सह गोपीभिर्योजयन् मधुराः कथाः ॥ ५ ॥
तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः ।
रामं रमयतां श्रेष्ठं प्रवासात् पुनरागतम् ॥ ६ ॥
स्वागतं ते महाबाहो यदूनां कुलनन्दन ।
अद्य स्म निर्वृतास्तात यत्त्वां पश्यामहे वयम् । ७ ॥
प्रीताश्चैव वयं वीर यत् त्वं पुनरिहागतः ।
विख्यातस्त्रिषु लोकेषु रामः शत्रुभयङ्करः ॥ ८ ॥
वर्धनीया वयं वीर त्वया यादवनन्दन ।
अथ वा प्राणिनस्तात रमन्ते जन्मभूमिषु ॥ ९ ॥
त्रिदशानां वयं मान्या ध्रुवमद्यामलानन ।
ये स्म दृष्टास्त्वया तात काङ्क्षमाणास्तवागमम् ॥ १० ॥
दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः ।
उग्रसेनोऽभिषिक्तश्च माहात्म्येन जनेन वै ॥ ११ ॥
समुद्रे च श्रुतोऽस्माभिस्तिमिना सह विग्रहः ।
वधः पञ्चजनस्यैव जरासंधेन विग्रहः ।
गोमन्ते च श्रुतोऽस्माभिः क्षत्र्यैः सह विग्रहः ॥ १२ ॥
दरदस्य वधश्चैव जरासंधपराजयः ।
तत्रायुधावतरणं श्रुतं नः परमाहवे ॥ १३ ॥
वधश्चैव शृगालस्य करवीरपुरोत्तमे ।
तत्सुतस्याभिषेकश्च नागराणां च सान्त्वनम् ॥ १४ ॥
मथुरायां प्रवेशश्च कीर्तनीयः सुरोत्तमैः ।
प्रतिष्ठिता च वसुधा पार्थिवाश्च वशीकृताः ॥ १५ ॥
तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा ।
तेन स्म परितुष्टा वै हृषिताश्च सबान्धवाः ॥ १६ ॥
प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् ।
यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः ॥ १७ ॥
इहावयोर्गतं बाल्यमिह चैवावयो रतम् ।
भवद्भिर्वर्द्धिताश्चैव यास्यामो विक्रियां कथम् ॥ १८ ॥
गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः ।
अस्माकं बान्धवाः सर्वे भवन्तो बद्धसौहृदाः ॥ १९ ॥
ब्रुवत्येवं यथातत्त्वं गोपमध्ये हलायुधे ।
संहृष्टवदना भूयो बभूवुर्व्रजयोषितः ॥ २० ॥
ततो वनान्तरगतो रेमे रामो महाबलः ।
एतस्मिन्नन्तरे प्राप्ते रामाय विदितात्मने ॥ २१ ॥
गोपालैर्देशकालज्ञैरुपानीयत वारुणी ।
सोऽपिबत्पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः ॥ २२ ॥
वनान्तरगतो रामः पानं मदसमीरणम् ।
उपनिन्युस्ततस्तस्मै वन्यानि विविधानि च ॥ २३ ॥
प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च ।
मेध्यांश्च विविधान् गन्धान् भक्ष्यांश्च हृदयंगमान् ।
सद्यो हृतानि पद्मानि विकचान्युत्पलानि च ॥ २४ ॥
शिरसा चारुकेशेन किञ्चिदावृतमौलिना ।
श्रवणैकावलम्बेन कुण्डलेन विराजता ॥ २५ ॥
चन्दनार्द्रेण पीतेन वनमालावलम्बिना ।
विबभावुरसा रामः कैलासेनेव मन्दरः ॥ २६ ॥
नीले वसानो वसने प्रत्यग्रजलदप्रभे । ॥
रराज वपुष शुभ्रस्तिमिरौघे यथा शशी ॥ २७ ॥
लाङ्गलेनावसिक्तेन भुजगाभोगवर्तिना ।
तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता ॥ २८ ॥
स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥ २९ ॥
रामस्तु यमुनामाह स्नातुमिच्छे महानदि ।
एहि मामभिगच्छ त्वं रूपिणी सागरंगमे ॥ ३० ॥
संकर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।
नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता ॥ ३१ ॥
ततश्चुक्रोध बलवान् रामो मदसमीरितः ।
चकार स हलं हस्ते कर्षणाधोमुखं बली ॥ ३२ ॥
तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।
मुमुचुः पुष्पकोशैश्च वासरेण्वरुणं जलम् ॥ ३३ ॥
स हलेनानताग्रेण कूले गृह्य महानदीम् ।
चकर्ष यमुनां रामो व्युत्थितां वनितामिव ॥ ३४ ॥
सा विह्वलजलस्रोता ह्रदप्रस्थितसंचया ।
व्यावर्तत नदी भीता हलमार्गानुसारिणी ॥ ३५ ॥
लाङ्गलादिष्टवर्त्मा सा वेगगा वक्रगामिनी ।
संकर्षणभयत्रस्ता योषेवाकुलतां गता ॥ ३६ ॥
पुलिनश्रोणिबिम्बौष्ठी मृदितैस्तोयताडितैः ।
फेनमेखलसूत्रैश्च च्छिन्नैरम्बुदगामिनी ॥ ३७ ॥
तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।
वेगगंभीरवक्राङ्गी त्रस्तमीनविभूषणा ॥ ३८ ॥
सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।
तीरजोद्भूतकेशान्ता जलस्खलितगामिनी ॥ ३९ ॥
लाङ्गूलोल्लिखितापाङ्गी क्षुभिता सागरंगमा ।
मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥ ४० ॥
कृष्यते सातिवेगेन स्रोतःस्खलितगामिनी ।
उन्मार्गा नीतमार्गा सा येन वृन्दावनं वनम् ॥ ४१ ॥
वृन्दावनस्य मध्येन सा नीता यमुना नदी ।
रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥ ४२ ॥
सा यदा समतिक्रान्ता नदी वृन्दावनं वनम् ।
तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥ ४३ ॥
प्रसीद नाथ भीतास्मि प्रतिलोमेन कर्मणा ।
विपरीतमिदं रूपं तोयं च मम जायते ॥ ४४ ॥
असत्यहं नदीमध्ये रौहिणेय त्वया कृता ।
कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥ ४५ ॥
प्राप्तां मां सागरे पूर्वं सपत्न्यो वेगगर्विताः ।
फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥ ४६ ॥
प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज ।
सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ॥ ४७ ॥
कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् ।
मूर्ध्ना गच्छामि चरणौ तवैषा लांगलायुध ।
मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज ॥ ४८ ॥
वैशम्पायन उवाच
प्रणयावनतां दृष्ट्वा यमुनां लाङ्गलायुधः ।
प्रत्युवाचार्णववधूं मदक्लान्त इदं वचः ॥ ४९ ॥
लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने ।
देशमम्बुप्रदानेन प्लावयस्वाखिलं शुभे ॥ ५० ॥
एष ते सुभ्रु संदेशः कथितः सागरंगमे ।
शान्तिं व्रज महाभागे गम्यताम् च यथासुखम् ॥ ५१ ॥
यावत् स्थास्यति लोकोऽयं तावत् तिष्ठतु मे यशः ।
यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः ॥ ५२ ॥
साधु साध्विति रामाय प्रणामं चक्रिरे तदा ।
तां विसृज्य महाभागां तांश्च सर्वान् व्रजौकसः ॥ ५३ ॥
ततः संचिन्त्य मनसा रामः प्रहरतां वरः ।
पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः ॥ ५४ ॥
स गत्वा मथुरां रामो भवने मधुसूदनम् ।
परिवर्तमानं ददृशे पृथिव्यां सारमव्ययम् ॥ ५५ ॥
तथैवाध्वन्यवेषेण सोपश्लिष्य जनार्दनम् ।
प्रत्यग्रवनमालेन वक्षसाभिविराजता ॥ ५६ ॥
स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् ।
सहसोत्थाय गोविन्दो ददावासनमात्मनः ॥ ५७ ॥
उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥ ५८ ॥
प्रत्युवाच ततो रामो भ्रातरं साधुभाषिणम् ।
सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि ॥ ५९ ॥
ततस्तयोर्विचित्रार्थाः पौराण्यश्चाभवन् कथाः ।
वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा ॥ ६० ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
यमुनाकर्षणे षट्चत्वारिंशोऽध्यायः ॥
GO TOP
|