[ Right click to 'save audio as' for downloading Audio ]
सावित्र्युपाख्याने कुण्डसंख्यानिरूपणम् -
धर्मराजका सावित्रीको अशुभ कर्मोंके फल बताना -
श्रीनारायण उवाच मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् । कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १ ॥
श्रीनारायण बोले-[हे नारद !] सूर्यपुत्र यमराज सावित्रीको विधिपूर्वक भगवतीके महामन्त्र मायावीजकी दीक्षा प्रदानकर उसे प्राणियोंके अशुभ कर्मका फल बताने लगे ॥ १ ॥
धर्मराज उवाच शुभकर्मविपाकान्न नरकं याति मानवः । कर्माशुभविपाकं च कथयामि निशामय ॥ २ ॥
धर्मराज बोले-शुभ कर्मके विपाकके कारण मनुष्य नरकमें नहीं जाता है । अब मैं अशुभ कर्मोंका फल कह रहा हूँ, ध्यानपूर्वक सुनो- ॥ २ ॥
नानापुराणभेदेन नामभेदेन भामिनि । नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः ॥ ३ ॥
हे भामिनि ! अनेक प्रकारके पुराणोंके अनुसार नामभेदसे अनेकविध स्वर्ग हैं । अपने-अपने कौके अनुसार जीव वहाँ जाता है ॥ ३ ॥
शुभकर्मविपाकान्न नरकं याति कर्मभिः । कुकर्मणा च नरकं याति नानाविधं नरः ॥ ४ ॥
मनुष्य अपने शुभ कर्मोंके फलसे नरकमें नहीं जाता है । वह अपने बुरे कर्मके कारण अनेक प्रकारके नरकमें पड़ता है ॥ ४ ॥
नरकाणां च कुण्डानि सन्ति नानाविधानि च । नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च ॥ ५ ॥ विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् । भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ॥ ६ ॥ षडशीति च कुण्डानि एवमन्यानि सन्ति च । निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥ ७ ॥
नरकोंके अनेक प्रकारके कुण्ड हैं । हे वत्से ! विविध शास्त्रोंके प्रमाणोंके अनुसार तथा जीवोंके कर्मभेदसे प्राप्त होनेवाले अत्यन्त विस्तृत, गहरे, पापियोंके लिये क्लेशदायक, भयंकर, घोर तथा कुत्सित कुल छियासी कुण्ड हैं । इसके अतिरिक्त कुछ अन्य कुण्ड भी हैं । हे साध्वि ! उन कुण्डोंके वेदप्रसिद्ध नामोंको बता रहा हूँ, ध्यानपूर्वक सुनो ॥ ५-७ ॥
वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् । विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ८ ॥ गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च । शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ९ ॥ कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च । मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम् ॥ १० ॥ लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् । ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ ११ ॥ चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् । तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम् ॥ १२ ॥
प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् । कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १३ ॥ मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् । कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १४ ॥ शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् । गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १५ ॥ मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् । तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ १६ ॥ लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च । चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ १७ ॥ ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते । तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम् ॥ १८ ॥ गोकामुख नक्रमुखं गजदंशं च गोमुखम् । कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम् ॥ १९ ॥ पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् । उल्कामुखमन्धकूपं वेधनं ताडनं तथा ॥ २० ॥ जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् । शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम् ॥ २१ ॥
हे सुव्रते ! इसी प्रकार प्रतप्त तैलकुण्ड, दुर्वह कुन्तकुण्ड, कृमिकुण्ड, पूयकुण्ड, अत्यन्त कष्टप्रद सर्पकुण्ड, मशककुण्ड, दंशकुण्ड, भयानक गरलकुण्ड और वजके समान दाँतोंवाले बिच्छुओंके भी कुण्ड हैं । हे शुचिस्मिते ! शरकुण्ड, शूलकुण्ड, भयंकर खड्गकुण्ड, गोलकुण्ड, नक्रकुण्ड, कष्टदायक काककुण्ड, मन्थानकुण्ड, बीजकुण्ड, दुःसह वजकुण्ड, तप्तपाषाणकुण्ड, तीक्ष्णपाषाणकुण्ड, लालाकुण्ड, मसीकुण्ड, चूर्णकुण्ड, चक्रकुण्ड, वक्रकुण्ड, महाभयंकर कूर्मकुण्ड, ज्वालाकुण्ड, भस्मकुण्ड, दग्धकुण्ड, तप्तसूचीकुण्ड, असिपत्रकुण्ड, क्षुरधारकुण्ड, सूचीमुखकुण्ड, गोकामुखकुण्ड, नक्रमुखकुण्ड, गजदंशकुण्ड, गोमुखकुण्ड, कुम्भीपाककुण्ड, कालसूत्रकुण्ड, मत्स्योदकुण्ड, कृमितन्तु-कुण्ड, पांसुभोज्यकुण्ड, पाशवेष्टकुण्ड, शूलप्रोतकुण्ड, प्रकम्पनकुण्ड, उल्कामुखकुण्ड, अन्धकूपकुण्ड, वेधनकुण्ड, ताडनकुण्ड, जालरन्ध्रकुण्ड, देहचूर्णकुण्ड, दलनकुण्ड, शोषणकुण्ड, कषकुण्ड, शूर्पकुण्ड, ज्वालामुखकुण्ड, धूमान्धकुण्ड और नागवेष्टनकुण्डये कुण्ड कहे गये हैं ॥ १३-२१ ॥
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च । नियुतैः किङ्करगणै रक्षितानि च सन्ततम् ॥ २२ ॥ दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः । शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः ॥ २३ ॥ तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः । तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः ॥ २४ ॥ योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः । आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ २५ ॥ स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः । अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च ॥ २६ ॥ स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः । बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ २७ ॥
हे सावित्रि ! ये सभी कुण्ड पापियोंके लिये क्लेशप्रद हैं । दस लाख अनुचर सदा इन कुण्डोंकी रखवाली करते रहते हैं । वे सभी निर्दयी, अभिमानमें चूर तथा भयंकर सेवकगण अपने हाथोंमें दण्ड, पाश, शक्ति, गदा और तलवार लिये रहते हैं । वे तमोगुणसे युक्त तथा दयाशून्य रहते हैं और कोई भी उनका प्रतिरोध नहीं कर सकता । उन तेजस्वी तथा निर्भीक अनुचरोंकी आँखें ताँबेके सदृश तथा कुछ-कुछ पीले वर्णकी हैं । योगयुक्त तथा सिद्धियोंसे सम्पन्न वे सभी सेवक अनेक प्रकारके रूप धारण कर लिया करते हैं । वे सेवक समस्त पापी प्राणियोंको उनकी मृत्यु निकट आनेपर दिखायी पड़ते हैं । शक्ति, सूर्य तथा गणपतिके उपासकों एवं अपने कर्मों में लगे रहनेवाले पुण्यशाली सिद्धों तथा योगियोंको वे दिखायी नहीं पड़ते । इसी प्रकार जो सदा अपने धर्ममें लगे रहते हैं, जिनका हृदय विशाल है, जो पूर्ण स्वतन्त्र हैं तथा जिन्हें स्वप्नमें या कहीं भी अपने इष्टदेवका दर्शन हो चुका है-ऐसे वैष्णवजनोंको वे बलवान् तथा निःशंक यमदूत कभी दिखायी नहीं पड़ते ॥ २२-२७ ॥
एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम् । येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ २८ ॥
हे साध्वि ! यह मैंने तुमसे कुण्डोंकी संख्याका निरूपण कर दिया । जिन-जिन पापियोंका जिन-जिन कुण्डोंमें वास होता है, अब मैं तुम्हें यह बता रहा हूँ, ध्यानसे सुनो ॥ २८ ॥