श्रीहरिवंशपुराण विष्णुपर्व षड्विंशोऽध्यायः
अक्रूरदर्शनम्
वैशम्पायन उवाच
स नन्दगोपस्य गृहं प्रविष्टः सहकेशवः ।
गोपवृद्धान् समानीय प्रोवाचामितदक्षिणः ॥ १ ॥
कृष्णं चैवाब्रवीत् प्रीत्या रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै ॥ २ ॥
यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः ।
कंसाज्ञया समुचितं करमादाय वार्षिकम् ॥ ३ ॥
समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ ॥ ४ ॥
पितरं वसुदेवं च सततम् दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं युवामद्य समेष्यथः ॥ ५ ॥
सततं पीड्यमानं च कंसेनाशुभबुद्धिना ।
दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् ॥ ६ ॥
कंसस्य भयसंत्रस्तं भवद्भ्यां च विना कृतम् ।
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना ॥ ७ ॥
तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् ।
देवकीं देवसंकाशां सीदन्तीं विहतप्रभाम् ॥ ८ ॥
पुत्रशोकेन शुष्यन्तीं त्वद्दर्शनपरायणाम् ।
वियोगशोकसंतप्तां विवत्सामिव सौरभीम् ॥ ९ ॥
उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव ॥ १० ॥
त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् ।
त्वत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् ॥ ११ ॥
त्वत्प्रलापेष्वकुशलां त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः ॥ १२ ॥
यदि त्वां जनयित्वा सा देवकी तात तप्यते ।
अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता ॥ १३ ॥
अपुत्राणां हि नारीणामेकः शोको विधीयते ।
सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते ॥ १४ ॥
त्वं तु शक्रसमः पुत्रो यस्यास्त्वत्सदृशो गुणैः ।
परेषामप्यभयदो न सा शोचितुमर्हति ॥ १५ ॥
वृद्धौ तवांबापितरौ परभॄत्यत्वमागतौ ।
भर्त्सितौ त्वत्कृते नित्यं कंसेनाशुभबुद्धिना ॥ १६ ॥
यदि ते देवकी मान्या पृथिवी वात्मधारिणी ।
तां शोकसलिले मग्नामुत्तारयितुमर्हसि ॥ १७ ॥
तं च वृद्धं प्रियसुतं वसुदेवं सुखोचितम् ।
पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि ॥ १८ ॥
यथा नागः सुदुर्वृत्तो दमितो यमुनाह्रदे ।
विमूलः स कृतः शैलो यथा वै भूधरस्त्वया ॥ १९ ॥
दर्पोत्सिक्तश्च बलवानरिष्टो विनिपातितः ।
परप्राणहरः केशी दुष्टात्मा च हयो हतः ॥ २० ॥
एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ । ॥
यथा धर्ममवाप्नोषि तत् कृष्ण परिचिन्त्यताम् ॥ २१ ॥
निर्भर्त्स्यमानो यैर्दृष्टः पिता ते कंससंसदि ।
ते सर्वे चक्रुरश्रूणि नेत्रैर्दुःखान्विता भृशम् ॥ २२ ॥
गर्भावकर्तनादीनि दुःखानि सुबहून्यपि ।
माता ते देवकी कृष्ण कंसस्य सहतेऽवशा ॥ २३ ॥
मातापितृभ्यां सर्वेण जातेन तनयेन वै ।
ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम् ॥। २४ ॥
एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् ।
परित्यजेतां तौ शोकं स्याच्च धर्मस्तवानघ ॥ २५ ॥
वैशम्पायन उवाच
कृष्णः सुविदितार्थो वै तमाहामितविक्रमम् ।
बाढमित्येव तेजस्वी न च क्रोधवशं गतः ॥ २६ ॥
ते च गोपाः समागम्य नन्दगोपपुरःसराः ।
अक्रूरवचनं श्रुत्वा चेलुः कंसस्य शासनात् ॥ २७ ॥
गमनाय च ते सज्जा बभूवुर्व्रजवासिनः ।
सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे ॥ २८ ॥
करं चानडुहः सर्पिर्महिषांश्चौपनायिकान् ।
यथासारं यथायूथमुपानीय पयो दधि ॥ २९ ॥
तं सज्जयित्वा कंसस्य करं चोपायनानि च ।
ते सर्वे गोपपतयो गमनायोपतस्थिरे ॥ ३० ॥
अक्रूरस्य कथाभिश्च सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत ॥ ३१ ॥
ततः प्रभाते विमले पक्षिव्याहारसंकुले ।
नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते ॥ ३२ ॥
नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिषां गणे ।
प्रत्यूषपवनासारैः क्लेदिते धरणीतले ॥ ३३ ॥
क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च ।
नैशमन्तर्दधे रूपमुद्गच्छति दिवाकरे ॥ ३४ ॥
शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत ।
एको नाशयते रूपमेको वर्धयते वपुः ॥ ३५ ॥
गोभिश्च समकीर्णासु व्रजनिर्याणभूमिषु ।
मन्थनावर्तपूर्णेषु गर्गरेषु नदत्सु च ॥ ३६ ॥
दामभिर्दम्यमानेषु वत्सेषु तरुणेषु च ।
गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः ॥ ३७ ॥
तत्रैव गुरुकं भाण्डं शकटारोपितं बहु ।
त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः ॥ ३८ ॥
कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः ।
त्रयो रथगता जग्मुस्त्रिलोकपतयो यथा ॥ ३९ ॥
अथाह कृश्णमक्रूरो यमुनातीरमाश्रितः ।
स्यन्दनं चात्र रक्षस्व यत्नं च कुरु वाजिषु ॥ ४० ॥
हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा ।
प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्ष्यताम् ॥ ४१ ॥
यमुनाया ह्रदे ह्यस्मिन् स्तोष्यामि भुजगेश्वरम् ।
दिव्यैर्भागवतैर्मन्त्रैः सर्वलोकप्रभुं यतः ॥ ४२ ॥
गुह्यं भागवतं देवं सर्वलोकस्य भावनम् ।
श्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ४३ ॥
धर्मदेवस्य तस्याथ यद् विषं प्रभविष्यति ।
सर्वं तदमृतप्रख्यमशिष्याम्यमरो यथा ॥ ४४ ॥
स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं श्रीविभूषितम् ।
समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति ॥ ४५ ॥
आस्तां मां समुदीक्षन्तौ भवन्तौ सङ्गतावुभौ ।
निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात् ॥ ४६ ॥
तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ मा चिरम् ।
आवां खलु न शक्तौ स्वस्त्वया हीनावुपासितुम् ॥ ४७ ॥
स ह्रदे यमुनायास्तु ममज्जामितदक्षिणः ।
रसातले स ददृशे नागलोकमिमं यथा ॥ ४८ ॥
तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् ।
लाङ्गलासक्तहस्ताग्रं मुसलोपाश्रितोदरम् ॥ ४९ ॥
असिताम्बरसंवीतं पाण्डुरं पाण्डुरासनम् ।
कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम् ॥ ५० ॥
भोगोत्करासने शुभ्रे स्वेन देहेन कल्पिते ।
स्वासीनं स्वस्तिकाभ्यां च वराहाभ्यां महीधरम् ॥ ५१ ॥
किञ्चित्सव्यापवृत्तेन मौलिना हेमचूलिना ।
जातरूपमयैः पद्मैर्मालयाच्छन्नवक्षसम् ॥ ५२ ॥
रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिन्दमम् ।
पद्मनाभसिताभ्राभं भाभिर्ज्वलिततेजसम् ॥ ५३ ॥
ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् । ॥
पूज्यमानं द्विजिह्वेन्द्रैर्वासुकिप्रमुखैः प्रभुम् ॥ ५४ ॥
कम्बलाश्वतरौ नागौ तौ चामरकरावुभौ ।
अवीजयेतां तं देवं धर्मासनगतं प्रभुम् ॥ ५५ ॥
तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः ।
वृतोऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः ॥ ५६ ॥
तं घटाइः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमस्तकैः ।
राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः ॥ ५७ ॥
तस्योत्सङ्गे घनश्यामं श्रीवत्साच्छादितोरसम् ।
पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह ॥ ५८ ॥
अपरं चैव सोमेन तुल्यसंहननं प्रभुम् ।
सङ्कर्षणमिवासीनं तं दिव्यं विष्टरं विना ॥ ५९ ॥
स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे ।
तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा ॥ ६० ॥
सोऽनुभूय भुजङ्गानां तं भागवतमव्ययम् ।
उदतिष्ठत् पुनस्तोयाद् विस्मितोऽमितदक्षिणः ॥ ६१ ॥
स तौ रथस्थावासीनौ तत्रैव बलकेशवौ ।
निरीक्ष्यमाणावन्योन्यं ददर्शाद्भुतरूपिणौ ॥ ६२ ॥
अथामज्जत् पुनस्तत्र तदाक्रूरः कुतूहलात् ।
इज्यते यत्र देवोऽसौ नीलवासाः सिताननः ॥ ६३ ॥
तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै ।
ददर्श कृष्णमक्रूरः पूज्यमानं तदा प्रभुम् ॥ ६४ ॥
भूयश्च सहसोत्थाय तं मन्त्रम् मनसा जपन् ।
रथं तेनैव मार्गेण जगामामितदक्षिणः ॥ ६५ ॥
तमाह केशवो हृष्टः स्थितमक्रूरमागमत् ।
कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे ॥ ६६ ॥
चिरं च भवता कालो व्याक्षेपेण विलम्बितः ।
मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम् ॥ ६७ ॥
प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना ।
किं भविष्यति लोकेषु स्थावरेषु चरेषु च ॥ ६८ ॥
तत्राश्चर्यं मया दृष्टं कृष्ण यद् भुवि दुर्लभम् ।
तदिहापि यथा तत्र पश्यामि च रमामि च ॥ ६९ ॥
सङ्गतश्चापि लोकानामाश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥ ७० ॥
तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः ॥ ७१ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
अक्रूरकृतनागलोककथने षड्विंशोऽध्यायः ॥
GO TOP
|