Menus in CSS Css3Menu.com



श्रीहरिवंशपुराण
विष्णुपर्व
त्रिंशोऽध्यायः

कंसवधः


वैशम्पायन उवाच
प्रविशन्तं तु वेगेन मारुतावल्गितांबरम् ।
पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् ॥ १ ॥
गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम् ।
लीलाकृताङ्‌गदं वीरं मदेन रुधिरेण च ॥ २ ॥
वल्गमानं यथा सिंहं व्यूहमानं यथा घनम् ।
बाहुशब्दप्रहारेण चालयन्तं वसुंधराम् ॥ ३ ॥
औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम् ।
कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत ॥ ४ ॥
भुजासक्तेन शुशुभे गजदन्तेन केशवः । ॥
चन्द्रार्धबिम्बसंसक्तो यथैकशिखरो गिरिः ॥ ५ ॥
वल्गमाने तु गोविन्दे स कृत्स्नोरगसागरः ।
जनौघप्रतिनादेन पूर्यमाण इवाबभौ ॥ ६ ॥
ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः ।
चाणूरमादिशद्युद्धे कृष्णस्य सुमहाबलम् ॥ ७ ॥
अन्ध्रं मल्लं च निकृतिं मुष्टिकं च महाबलम् ।
बलदेवाय सक्रोधो दिदेशाद्रिचयोपमम् ॥ ८ ॥
कंसेनापि समाज्ञप्तश्चाणूरः पूर्वमेव तु ।
योद्धव्यं सह कृष्णेन त्वया यत्‍नवतेति वै ॥ ९ ॥
स रोषेणा तु चाणूरः कषायीकृतलोचनः ।
अभ्यावर्तत युद्धार्थमपां पूर्णो यथा घनः ॥ १० ॥
अवघुष्टे समाजे तु निश्शब्दस्तिमिते जने ।
यादवाः सहितास्तत्र इदं वचनमब्रुवन् ॥ ११ ॥
बाहुयुद्धमिदं रंगे सप्राश्निकमकातरम् ।
क्रियाबलसमाज्ञातमशस्त्रं निर्मितं पुरा ॥ १२ ॥
अद्‌भिश्चातिश्रमो नित्यं विनेयः कालदर्शिभिः ।
करीषेण च मल्लस्य सततं सत्क्रिया स्मृता ॥ १३ ॥
स्थितो भूमिगतेनैव यो यथा मार्गतः स्थितः ।
संयुज्यतश्च पर्यायः प्राश्निकैः समुदाहृतः ॥ १४ ॥
बालो वा यदि वा वृद्धो मध्यो वापि कृशोऽपि वा ।
बलस्थो वा स्थितो रंगे ज्ञेयः कक्षान्तरेण वै ॥ १५ ॥
बलतश्च क्रियातश्च बाहुयुद्धविधिर्युधि ।
निपातानन्तरं किंचिन्न कर्तव्यं विजानता ॥ १६ ॥
तदिदं प्रस्तुतं रंगे युद्धं कृष्णान्ध्रमल्लयोः ।
बालः कृष्णो महानन्ध्रः कथं न स्याद् विचारणा ॥ १७ ॥
ततः किलकिलाशब्दः समाजे समवर्तत । ॥
प्रावल्गत च गोविन्दो वाक्यं चेदमुवाच ह ॥ १८ ॥
अहं बालो महानन्ध्रो वपुषा पर्वतोपमः । ॥
युद्धं ममानेन सह रोचते बाहुशालिना ॥ १९ ॥
युद्धव्यतिक्रमः कश्चिन्न भविष्यति मत्कृतः ।
न ह्यहं बाहुयोधानां दूषयिष्यामि यन्मतम् ॥ २० ॥
योऽयं करीषधर्मश्च तोयधर्मश्च रंगजः ।
कषायस्य च संसर्गः समयो ह्येष कल्पितः ॥ २१ ॥
संयमः स्थिरता शौर्यं व्यायामः सत्क्रिया बलम् ।
रंगे च नियता सिद्धिरेतद् युद्धविदां मतम् ॥ २२ ॥
अवैरमेवं यदयं सवैरं कर्तुमुद्यतः । ॥
अत्र वै निग्रहः कार्यस्तोषयिष्याम्यहं जगत् ॥ २३ ॥
करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः ।
बाहुयोधी शरीरेण कर्मभिश्चात्र चिन्त्यताम् ॥ २४ ॥
एतेन बहवो मल्ला निपातानन्तरं हताः ।
रङ्‌गप्रतापकामेन मल्लमार्गश्च दूषितः ॥ २५ ॥
शस्त्रसिद्धिस्तु योधानां संग्रामे शस्त्रयोधिनाम् ।
रङ्‌गसिद्धिस्तु मल्लानां प्रतिमल्लनिपातजा ॥ २६ ॥
रणे विजयमानस्य कीर्तिर्भवति शाश्वती ।
हतस्यापि रणे शस्त्रैर्नाकपृष्ठं विधीयते ॥ २७ ॥
रणे ह्युभयतः सिद्धिर्हतस्येह घ्नतोऽपि वा ।
सा हि प्राणान्तिकी यात्रा महद्‌भिः साधुपूजिता ॥ २८ ॥
अयं तु मार्गो बलतः क्रियातश्च विनिःसृतः ।
मृतस्य रङ्‌गे क्व स्वर्गो जयतो वा कुतो रतिः ॥ २९ ॥
ये तु केचित् स्वदोषेण राज्ञः पण्डितमानिनः ।
प्रतापार्थे हता मल्ला मल्लहन्तुर्वधो हि सः ॥ ३० ॥
एवं सञ्जल्पतामेव ताभ्यां युद्धं सुदारुणम् ।
उभाभ्यामभवद् घोरं वारणाभ्यां यथा वने ॥ ३१ ॥
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकण्टकैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ ३२ ॥
तावुभावपि संश्लिष्टौ यथा शैलमयौ तथा ।
क्षेपणैर्मुष्टिभिश्चैव वराहोद्‌भूतनिःस्वनैः ॥ ३३ ॥
कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।
शलाकानखपातैश्च पादोद्‌धूतैश्च दारुणैः ॥ ३४ ॥
जानुभिश्चाश्मनिर्घोषैः शिराभ्यां चावघट्टितैः ।
तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा ॥ ३५ ॥
बाहुघ्राणेन शूराणां समाजोत्सवसन्निधौ ।
अरज्यत जनः सर्वः सोत्कृष्टनिनदोत्थितः ॥ ३६ ॥
साधुवादांश्च मञ्चेषु घोषयन्त्यपरे जनाः ।
ततः प्रस्विन्नवदनः कृष्णप्रणिहितेक्षणः ।
न्यवारयत तूर्याणि कंसः सव्येन पाणिना ॥ ३७ ॥
प्रतिषिद्धेषु तूर्येषु मृदङ्‍गादिषु तेषु वै ।
खे सङ्‌गतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ ३८ ॥
युद्ध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे ।
स्वयमेव प्रवाद्यन्त तूर्यघोषास्तु सर्वशः ॥ ३९ ॥
अन्तर्धानगता देवा विमानैः कामरूपिभिः ।
चेरुर्विद्याधरैः सार्द्धं कृष्णस्य जयकाङ्‌क्षिणः ॥ ४० ॥
जयस्व कृष्ण चाणूरं दानवं मल्लरूपिणम् ।
इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः ॥ ४१ ॥
चाणूरेण चिरं कालं क्रीडित्वा देवकीसुतः ।
बलमाहारयामास कंसस्याभावदर्शिवान् ॥ ४२ ॥
ततश्चचाल वसुधा मञ्चाश्चैव जुघूर्णिरे ।
मुकुटाश्चापि कंसस्य पपात मणिरुत्तमः ॥ ४३ ॥
दोर्भ्यामानम्य कृष्णस्तु चाणूरं शीर्णजीवितम् ।
प्राहरन्मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥ ४४ ॥
निःसृते साश्रुरुधिरे तस्य नेत्रे सबन्धने ।
तापनीये यथा घण्टे कक्षोपरि विलम्बिते ॥ ४५ ॥
पपात स तु रङ्‌गस्य मध्ये निःसृतलोचनः ।
चाणूरो विगतप्राणो जीवितान्ते महीतले ॥ ४६ ॥
देहेन तस्य मल्लस्य चाणूरस्य गतायुषः ।
सन्निरुद्धो महारङ्‌गः स शैलेनेव लक्ष्यते ॥ ४७ ॥
रौहिणेयो हते तस्मिंश्चाणूरे बलदर्पिते ।
जग्राह मुष्टिकं रंगे कृष्णस्तोशलकं पुनः ॥ ४८ ॥
सन्निपाते तु तौ मल्लौ प्रथमे क्रोधमूर्च्छितौ ।
समेयातां रामकृष्णौ कालस्य वशवर्तिनौ ।
निर्घातावनतौ भूत्वा रङ्‌गमध्ये ववल्गतुः ॥ ४९ ॥
कृष्णस्तोशलमुद्यम्य गिरिशृङ्‌गोपमं बली ।
भ्रामयित्वा शतगुणं निष्पिपेष महीतले ॥ ५० ॥
तस्य कृष्णाभिपन्नस्य पीडितस्य बलीयसः ।
मुखाद् रुधिरमत्यर्थमुज्जगाम मुमूर्षतः ॥ ५१ ॥
संकर्षणस्तु सुचिरं योधयित्वा महाबलः ।
अन्ध्रमल्लं महामल्लो मण्डलानि व्यदर्शयत् ॥ ५२ ॥
मुष्टिनैकेन तेजस्वी साशनिस्तनयित्‍नुना ।
शिरस्यभ्यहनद् वीरो वज्रेणेव महागिरिम् ॥ ५३ ॥
स निष्पतितमस्तिष्को विस्रस्तनयनो भुवि ।
पपात निहतस्तेन ततो नादो महानभूत् ॥ ५४ ॥
अन्ध्रतोशलकौ हत्वा कृष्णसंकर्षणावुभौ ।
क्रोधसंरक्तनयनौ रंगमध्ये ववल्गतुः ॥ ५५ ॥
समाजवाटो निर्मल्लः सोऽभवद्‌भीमदर्शनः ।
अन्ध्रे तदा महामल्ले मुष्टिके च निपातिते ॥ ५६ ॥
ये च संप्रेक्षका गोपा नन्दगोपपुरोगमाः ।
भयक्षोभितसर्वाङ्‌गाः सर्वे तत्रावतस्थिरे ॥ ५७ ॥
हर्षजं वारि नेत्राभ्यां वर्षमाणा प्रवेपती ।
प्रस्रवोत्पीडिता कृष्णं देवकी समुदैक्षत ॥ ५८ ॥
कृष्णदर्शनजातेन बाष्पेणाकुलितेक्षणा ।
वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते ॥ ५९ ॥
वारमुख्याश्च ताः सर्वाः कृष्णस्य मुखपङ्‌कजम् ।
पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः ॥ ६० ॥
कंसस्याथ मुखे स्वेदो भ्रूभेदान्तरगोचरः ।
अभवद् रोषनिर्यासः कृष्णसंदर्शनेरितः ॥ ६१ ॥
केशवाय सधूमेन रोषनिश्वासवायुना ।
दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना ॥ ६२ ॥
तस्य प्रस्फुरितौष्ठस्य स्विन्नालिकतलस्य वै ।
कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः ॥ ६३ ॥
क्रोधरक्तान्मुखात्तस्य निःसृताः स्वेदबिन्दवः ।
यथा रविकरस्पृष्टा वृक्षावश्यायबिन्दवः ॥ ६४ ॥
सोऽज्ञापयत संक्रुद्धः पुरुषान् व्यायतान् बहून् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां वनेचरौ ॥ ६५ ॥
न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शनौ ।
गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति ॥ ६६ ॥
नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम ।
आयसैर्निगडाकारैर्लोहपाशैर्निगृह्यतां ॥ ६७ ॥
वसुदेवश्च दुर्वृत्तो नित्यं द्वेषकरो मम ।
अवृद्धार्हेण दण्डेन क्षिप्रमद्यैव शास्यताम् ॥ ६८ ॥
ये चेमे प्राकृता गोपा दामोदरपरायणाः ।
ह्रियन्तां गाव एतेषां यच्चास्ति वसु किञ्चन ॥ ६९ ॥
एवमाज्ञापयानं तं कंसं परुषभाषिणम् ।
ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः ॥ ७० ॥
क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः ।
ज्ञातीनां च व्यथां दृष्ट्‍वा विसंज्ञां चैव देवकीम् ॥ ७१ ॥
स सिंह इव वेगेन केशवो जातविक्रमः । ॥
आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युतः ॥ ७२ ॥
रङ्‌गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् ।
असज्जद् वायुनाऽऽक्षिप्तो यथा स्वस्थो घनाघनः ॥ ७३ ॥
ददृशुर्न हि तं सर्वे रङ्‌गमध्यादवप्लुतम् ।
केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः ॥ ७४ ॥
सोऽपि कंसस्तथायस्तः परीतः कालधर्मणा ।
आकाशादिव गोविन्दं मेने तत्रागतं प्रभुम् ॥ ७५ ॥
स कृष्णेनायतं कृत्वा बाहुं परिघसन्निभम् ।
मूर्धजेषु परामृष्टः कंसो वै रङ्‍गसंसदि ॥ ७६ ॥
मुकुटश्चापतत् तस्य काञ्चनो वज्रभूषितः ।
शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना ॥ ७७ ॥
स ग्रहग्रस्तकेशश्च कंसो निर्यत्‍नतां गतः ।
तथैव च विसम्मूढो वैकल्यं समपद्यत ॥ ७८ ॥
निगृहीतश्च केशेषु गतासुरिव निःश्वसन् ।
न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा ॥ ७९ ॥
विकुण्डलाभ्यां कर्णाभ्यां चिन्नहारेण वक्षसा ।
प्रलम्बाभ्यां च बाहुभ्यां गात्रैर्विसृतभूषणैः ॥ ८० ॥
भ्रंशितेनोत्तरीयेण सहसावलिताननः ।
चेष्टमानः समाक्षिप्तः कंसः कार्ष्णेन तेजसा ॥ ८१ ॥
चकर्ष च महारङ्‌गे मञ्चान्निष्क्रम्य केशवः ।
केशेषु तं बलाद्‌गृह्य कंसं क्लेशार्हतां गतम् ॥ ८२ ॥
कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः ।
समाजवाटे परिखां देहकृष्टां चकार ह ॥ ८३ ॥
समाजवाटे क्रीडित्वा विकृष्य च गतायुषम् ।
कृष्णो विसर्जयामास कंसदेहमदूरतः ॥ ८४ ॥
धरण्यां मृदितः शिश्ये तस्य देहः सुखोचितः ।
क्रमेण विपरीतेन पांसुभिः परुषीकृतः ॥ ८५ ॥
तस्य तद् वदनं श्यामं सुप्ताक्षं मुकुटं विना ।
न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् ॥ ८६ ॥
असंग्रामहतः कंसः स बाणैरपरिक्षतः ।
केशग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः ॥ ८७ ॥
तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः ।
मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः ॥ ८८ ॥
तं हत्वा पुण्डरीकाक्षः प्रहर्षाद् द्विगुणप्रभः ।
ववन्दे वसुदेवस्य पादौ निहतकण्टकः ॥ ८९ ॥
मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः ।
सासिञ्चत् प्रस्रवोत्पीडैः कृष्णमानन्दनिःसृतैः ॥ ९० ॥
यादवांश्चैव तान् सर्वान् यथास्थानं यथावयः ।
पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा ॥ ९१ ॥
बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् ।
बाहुभ्यामेव तरसा सुनामानमपोथयत् ॥ ९२ ॥
तौ जितारी जितक्रोधौ चिरविप्रोषितौ व्रजे ।
स्वपितुर्भवनं वीरौ जग्मतुर्हृष्टमानसौ ॥ ९३ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे
विष्णुपर्वणि कंसवधे त्रिंशोऽध्यायः ॥




GO TOP