Menus in CSS Css3Menu.com



श्रीहरिवंशपुराण
विष्णुपर्व
एकत्रिंशोऽध्यायः

कंसयोषितां विलापः


वैशम्पायन उवाच
भर्तारं पतितं दृष्ट्‍वा क्षीणपुण्यमिव ग्रहम् ।
कंसपत्‍न्यो हतं कंसं समन्तात् पर्यवारयन् ॥ १ ॥
तं महीशयने सुप्तं क्षितिनाथं गतायुषम् ।
भार्याः स्म दृष्ट्‍वा शोचन्ति मृग्यो मृगपतिं यथा ॥ २ ॥
हा हताः स्म महाबाहो हताशा हतबांधवाः । ॥
वीरपत्‍न्यो हते वीरे त्वयि वीरव्रतप्रिये ॥ ३ ॥
इमामवस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम् ।
कृपणं राजशार्दूल विलपामः सबान्धवाः ॥ ४ ॥
छिन्नमूलाः स्म संवृत्ताः परित्यक्तास्त्वया विभो ।
त्वयि पञ्चत्वमापन्ने नाथेऽस्माकं महाबले ॥ ५ ॥
को नः कोपपरीताङ्‌गी रतिसंसर्गलालसाः ।
लता इव विचेष्टन्तीः शयनीयानि नेष्यति ॥ ६ ॥
इदं तेऽसदृशं सौम्य हृद्यनिश्वासमारुतम् ।
दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्‌कजम् ॥ ७ ॥
इमे ते श्रवणे शून्ये न शोभेते विकुण्डले ।
शिरोधरायां संलीने सततं कुण्डलप्रिये ॥ ८ ॥
क्व ते स मुकुटो वीर सर्वरत्‍नविभूषितः ।
अत्यर्थं शिरसो लक्ष्मीं यो दधारार्कसप्रभाम् ॥ ९ ॥
अनेन हि कलत्रेणा तवान्तःपुरशोभिना ।
कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते ॥ १० ॥
ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववञ्चिताः ।
पतीनामपरित्याज्याः स त्वं नस्त्यज्य गच्छसि ॥ ११ ॥
अहो कालो महावीर्यो येन पर्यायकर्मणा ।
कालतुल्यः सपत्‍नानां त्वं क्षिप्रमपनीयसे ॥ १२ ॥
वयं दुःखेष्वनुचिताः सुखेष्वेव त्वयैधिताः ।
कथं वत्स्याम विधवा नाथ कार्पण्यमाश्रिताः ॥ १३ ॥
स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः ।
त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा ॥ १४ ॥
वैधव्येनाभिभूताः स्मः शोकसंतप्तमानसाः ।
रोदितव्यह्रदे मग्नाः क्व गच्छामस्त्वया विना ॥ १५ ॥
सह त्वया गतः कालस्त्वदङ्‌के क्रीडितं कृतम् ।
क्षणेन तद्विहीनाः स्म अनित्या हि नृणां गतिः ॥ १६ ॥
अहो बलविहीनाः स्म विपन्ने त्वयि मानद ।
एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः ॥ १७ ॥
त्वया स्वर्गप्रतिच्छन्दैर्लालिताः स्म रतिप्रियाः ।
त्वयि कामवशाः सर्वाः स नस्त्यज्य क्व गच्छसि ॥ १८ ॥
अस्माकं त्वमनाथानां नाथो ह्यसि सुरोपम ।
आसां विलपमानानां कुररीणामिव प्रभो ।
प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद ॥ १९ ॥
एवमार्तकलत्रस्य शाम्यमानेषु बन्धुषु ।
गमनं ते महाभाग दारुणे प्रतिभाति नः ॥ २० ॥
नूनं कान्ततराः कान्त परलोके वरस्त्रियः ।
यतस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम् ॥ २१ ॥
किं नु ते कारणं वीर भार्यास्वेतासु भूरिद ।
आर्तनादं रुदन्तीषु यन्मोहान्नावबुध्यसे ॥ २२ ॥
अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी ।
यत्परित्यज्य दारान् स्वान् निरपेक्षा व्रजन्ति हि ॥ २३ ॥
अपतित्वं स्त्रियाः श्रेयो न तु शूरः पतिः स्त्रियाः ।
स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः ॥ २४ ॥
अहो क्षिप्रमदृश्येन नयतां त्वां रणप्रियम् ।
प्रहृतं नः कृतान्तेन सवासामन्तरात्मसु ॥ २५ ॥
हत्वा जरासन्धबलं जित्वा यक्षांश्च संयुगे ।
कथं मानुषमात्रेण हतस्त्वं जगतीतले ॥ २६ ॥
इन्द्रेणा सह संग्रामं कृत्वा सायकविग्रहम् ।
अमर्त्यैरजितो युद्धे मर्त्येनासि कथं हतः ॥ २७ ॥
त्वया सागरमक्षोभ्यं विक्षोभ्य शरवृष्टिभिः ।
रत्‍नसर्वस्वहरणं जित्वा पाशधरं कृतम् ॥ २८ ॥
त्वया पौरजनस्यार्थे मन्दं वर्षति वासवे ।
सायकैर्जलदाञ्जित्वा बलाद्वर्षं प्रवर्तितम् ॥ २९ ॥
प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः ।
प्रेषयन्तो वरार्हाणि रत्‍नान्याच्छादनानि च ॥ ३० ॥
तवैवं देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः ।
कथं प्राणान्तकं घोरमीदृशं भयमागतम् ॥ ३१ ॥
प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते ।
अप्रमत्ताः प्रमत्तेन कृतान्तेन निराकृताः ॥ ३२ ॥
यद्येवं नाथ गन्तव्यं यदि वा विस्मृता वयम् ।
वाङ्‌मात्रेणापि यामीति वक्तव्ये कः परिश्रमः ॥ ३३ ॥
प्रसीद नाथ भीताः स्म पादौ ते याम मूर्द्धभिः । ॥
अलं दूरप्रवासेन निवर्तस्व नराधिप ॥ ३४ ॥
अहो वीर कथं शेषे निषण्णस्तृणपांसुषु ।
शयानस्य हि ते भूमौ कस्मान्नोद्विजते वपुः ॥ ३५ ॥
केन सुप्तप्रहारोऽयं दत्तोऽस्माकमतर्कितः ।
प्रदत्तं केन सर्वासु नारीष्वेवं सुदारुणम् ॥ ३६ ॥
रुदितानुशयो नार्या जीवन्त्याः परिदेवनम् ।
किं वयं सति गन्तव्ये सह भर्त्रा रुदामहे ॥ ३७ ॥
एतस्मिन्नन्तरे दीना कंसमाता प्रवेपती ।
क्व मे वत्सः क्व मे पुत्र इति रोरूयती भृशम् ॥ ३८ ॥
सापश्यन्निहतं पुत्रं निष्प्रभं शशिनं यथा । ॥
हृदयेन विदीर्णेन भ्राम्यमाणा पुनः पुनः ॥ ३९ ॥
पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती ।
स्नुषाणामार्तनादेन विललाप रुरोद च ॥ ४० ॥
सा तस्य वदनं दीनमुत्सङ्‌गे पुत्रगृद्धिनी ।
कृत्वा पुत्रेति कारुण्यं विललापार्तया गिरा ॥ ४१ ॥
पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्द्धन ।
किमिदं त्वरितं वत्स प्रस्थानं कृतवानसि ॥ ४२ ॥
प्रसुप्तश्चातिविवृते किं पुत्र नियमं विना ।
वत्स नैवंविधा भूमौ शेरते कृतलक्षणाः ॥ ४३ ॥
रावणेन पुरा गीतः श्लोकोऽयं साधुसम्मतः ।
बलज्येष्ठेन लोकेषु राक्षसानां समागमे ॥ ४४ ॥
एवमूर्जितवीर्यस्य मम देवनिघातिनः ।
बान्धवेभ्यो भयं घोरं दुर्निवार्यं भविष्यति ॥ ४५ ॥
तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः ।
ज्ञातिभ्यो भयमुत्पन्नं शरीरान्तकरं महत् । ४६ ॥
सा पतिं भूपतिं वृद्धमुग्रसेनं विचेतसम् ।
उवाच रुदती वाक्यं विवत्सा हरिणी यथा ॥ ४७ ॥
एह्येहि राजञ्छुद्धात्मन् पश्य पुत्रं जनेश्वरम् ।
शयानं वीरशयने वज्राहतमिवाचलम् ॥ ४८ ॥
अस्य कुर्मो महाराज निर्याणसदृशीं क्रियाम् ।
प्रेतत्वमुपपन्नस्य गतस्य यमसादनम् ॥ ४९ ॥
वीरभोग्यानि राज्यानि वयं चापि पराजिताः ।
गच्छ विज्ञाप्यतां कृष्णः कंससत्कारकारणात् ॥ ५० ॥
मरणान्तानि वैराणि शान्ते शान्तिर्भविष्यति ।
प्रेतकार्याणि कार्याणि मृतः किमपराध्यते ॥ ५१ ॥
एवमुक्त्वा पतिं भोजं केशानारुज्य दुःखिता ।
पुत्रस्य मुखमीक्षन्ती विललापैव सा भृशम् ॥ ५२ ॥
इमास्ते किं करिष्यन्ति भार्या राजन्सुखोषिताः ।
त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः ॥ ५३ ॥
इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम् ।
कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा ॥ ५४ ॥
अहम् ते जननी पुत्र किमर्थं नाभिभाषसे ।
प्रस्थितो दीर्घमध्वानं परित्यज्य प्रियं जनम् ॥ ५५ ॥
अहो वीराल्पभाग्यायाः कृतान्तेनाभिवर्तिना ।
आच्छिद्य मम संदायो नीयसे नयकोविदः ॥ ५६ ॥
दानमानगृहीतानि तृप्तान्येतानि तैर्गुणैः ।
रुदन्ति तव भृत्यानां कुलानि कुलयूथप ॥ ५७ ॥
उत्तिष्ठ नरशार्दूल दीर्घबाहो महाबल ।
त्राहि दीनं जनं सर्वं पुरमन्तःपुरं यथा ॥ ५८ ॥
रुदतीनां भृशार्तानं कंसस्त्रीणां सुविस्तरम् ।
जगामास्तं दिनकरः संध्यारागेण रञ्जितः ॥ ५९ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे
विष्णुपर्वणि कंसस्त्रीविलापे एकत्रिंशोऽध्यायः ॥ ३१ ॥




GO TOP