Menus in CSS Css3Menu.com



श्रीहरिवंशपुराण
विष्णुपर्व
त्रयस्त्रिंशोऽध्ययः

रामकृष्णयोर्विद्यासंपादनम्


वैशम्पायन उवाच
स कृष्णस्तत्र बलवान् रौहिणेयेन संगतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥ १ ॥
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् । ॥
चचार मथुरां वीरः स रत्‍नाकरभूषणाम् ॥ २ ॥
कस्यचित् त्वथ कालस्य सहितौ रामकेशवौ ।
गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम् ॥ ३ ॥
धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः ।
निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ ॥ ४ ॥
शुश्रूषू निरहंकारावुभौ रामजनार्दनौ ।
प्रतिजग्राह तौ काश्यो विद्याः प्रादाच्च केवलाः ॥ ५ ॥
तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम् ।
अहोरात्रैश्चतुष्षष्ट्या साङ्‌गवेदमधीयताम् ॥ ६ ॥
चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससंग्रहम् ।
अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् ॥ ७ ॥
अतीवामानुषीं मेधां चिन्तयित्वा तयोर्गुरुः ।
मेने तावागतौ वीरौ देवौ चन्द्रदिवाकरौ ॥ ८ ॥
ददर्श च महात्मानावुभौ तावपि पर्वसु ।
पूजयन्तौ महादेवं साक्षाद् विष्णुं व्यवस्थितम् ॥ ९ ॥
गुरुं सान्दीपनिं कृष्णः कृतकृत्योऽभ्यभाषत ।
गुर्वर्थं किं ददानीति रामेण सह भारत ॥ १० ॥
तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवान् ।
पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि ॥ ११ ॥
पुत्र एकोऽपि मे जातः स चापि तिमिना हतः ।
प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय ॥ १२ ॥
तथेत्येवाब्रवीत् कृष्णो रामस्यानुमते स्थितः ।
गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः ॥ १३ ॥
समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास स्वं तदा ।
तमाह कृष्णः क्वासौ भोः पुत्रः सान्दीपनेरिति ॥ १४ ॥
समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् ।
तिमिरूपेण तं बालं ग्रस्तवानिति माधव ॥ १५ ॥
स पञ्चजनमासाद्य जघान पुरुषोत्तमः ।
न चाससाद तं बालं गुरुपुत्रं तदाच्युतः ॥ १६ ॥
स तु पञ्चजनं हत्वा शङ्‌खं लेभे जनार्दनः ।
यस्तु देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥ १७ ॥
ततो वैवस्वतपुरं जगाम पुरुषोत्तमः ।
ततो यमोऽभ्युपागम्य ववन्दे तं गदाधरम् ॥ १८ ॥
तमुवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् ।
तयोस्तत्र तदा युद्धमासीद् घोरतरं महत् ॥ १९ ॥
ततो वैवस्वतं घोरं निर्जित्य पुरुषोत्तमः ।
आससाद च तं बालं गुरुपुत्रं तदाच्युतः ॥ २० ॥
आनिनाय गुरोः पुत्रं चिरं नष्टं यमक्षयात् ।
ततः सान्दीपनेः पुत्रः प्रभावादमितौजसः ॥ २१ ॥
दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् ।
तदशक्यमचिन्त्यं च दृष्ट्‍वा सुमहदद्‌भुतम् ॥ २२ ॥
सर्वेषामेव भूतानां विस्मयः समजायत ।
स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः ।
रत्‍नानि च महार्हाणि पुनरायाज्जगत्प्रभुः ॥ २३ ॥
राक्षसैस्तस्य रत्‍नानि महार्हाणि बहूनि च ।
आनाय्यावेदयामास गुरवे वासवानुजः ॥ २४ ॥
गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ ।
अचिरान्मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम् ॥ २५ ॥
ततः सान्दीपनेः पुत्रं तद्‌रूपवयसं तदा ।
प्रादात् कृष्णः प्रतीतात्मा सह रत्‍नैरुदारधीः ॥ २६ ॥
चिरनष्टेन पुत्रेण काश्यः सान्दीपनिस्तदा ।
समेत्य मुमुदे राजन् पूजयन् रामकेशवौ ॥ २७ ॥
कृतास्त्रौ तावुभौ वीरौ गुरुमामन्त्र्य सुव्रतौ ।
आयातौ मथुरां भूयो वसुदेवसुतावुभौ ॥ २८ ॥
ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ ।
सबला हृष्टमनस उग्रसेनपुरोगमाः ॥ २९ ॥
श्रेण्यः प्रकृतयश्चैव मन्त्रिणः सपुरोहिताः ।
सबालवृद्धा सा चैव पुरी समभिवर्तत ॥ ३० ॥
नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् ।
रथ्याः पताकामालिन्यो भ्रजन्ते स्म समन्ततः ॥ ३१ ॥
प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत ।
गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा ॥ ३२ ॥
मुदिताश्चाथ गायन्ति राजमार्गेषु गायकाः ।
तत्रासीत्प्रथिता गाथा यादवानां प्रियङ्‌कराः ॥ ३३ ॥
गोविन्दरामौ संप्राप्तौ भ्रातरौ लोकविश्रुतौ । ॥
स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः ॥ ३४ ॥
न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः ।
मथुरायामभूद् राजन् गोविन्दे समुपस्थिते ॥ ३५ ॥
वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाः सर्वे भेजिरे मनसः सुखम् ॥ ३६ ॥
शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश ।
दैवतानि च हृष्टानि सर्वेष्वायतनेषु च ॥ ३७ ॥
यानि लिङ्‌गानि लोकस्य चासन् कृतयुगे पुरा ।
तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने ॥ ३८ ॥
ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः ।
हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् ॥ ३९ ॥
विशन्तं मथुरां रम्यां तमुपेन्द्रमरिन्दमम् ।
अनुजग्मुर्यदुगणाः शक्रं देवगणा इव ॥ ४० ॥
वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् ॥ ४१ ॥
परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ ।
तावायुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ॥ ४२ ॥
मुमुदाते यदुवरौ वसुदेवसुतावुभौ ।
उद्यानेषु विचित्रेषु फलपुष्पावनामिषु ॥ ४३ ॥
चेरतुः सुमहात्मानौ यादवैः परिवारितौ ।
रैवतस्य समीपेषु सरित्सु विमलासु च ॥ ४४ ॥
पद्मपत्रविवृद्धासु कारण्डवयुतासु च ।
एवं तावेकनिर्माणौ मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा कञ्चित्कालं मुमोदतुः ॥ ४५ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्यायः ॥




GO TOP