श्रीहरिवंशपुराण विष्णुपर्व पञ्चत्रिंशोऽध्यायः
यादवमागधयुद्धम्
वैशम्पायन उवाच
मथुरोपवने गत्वा निविष्टाम्स्तान् नराधिपान् ।
अपश्यन् वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् ॥ १ ॥
ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् ।
त्वरते खलु कार्यार्थो देवतानां न संशयः ॥ २ ॥
यथायं संनिकृष्टो हि जरासंधो नराधिपः । ॥
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥ ३ ॥
एतानि शशिकल्पानि नृपाणां विजिगीषताम् ।
छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च ॥ ४ ॥
अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥ ५ ॥
काले खलु नृपः प्राप्तो जरासंधो महीपतिः । ॥
आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥ ६ ॥
आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ ।
युद्धारंभः प्रयोक्तव्यो बलं तावद्विमृश्यताम् ॥ ७ ॥
एवमुक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः ।
जरासंधबलं प्रेप्सुश्चकार बलदर्शनम् ॥ ८ ॥
वीक्षमाणश्च तान् सर्वान् नृपान् यदुवरोऽव्ययः ।
आत्मनैवात्मनो वाक्यमुवाच हृदि मन्त्रवित् ॥ ९ ॥
इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥ १० ॥
प्रोक्षितान् खल्विमान् मन्ये मृत्युना नृपपुङ्गवान् ।
स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे ॥ ११ ॥
स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपाणां मुख्यानां बलौघैरभिपीडिता ॥ १२ ॥
मही निरन्तरा चेयं बलराष्ट्राभिसंवृता ।
स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम् ॥ १३ ॥
भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः ।
वैशम्पायन उवाच
जरासंधस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् ॥ १४ ॥
नराधिपसहस्रौघैरनुयातो महाद्युतिः ।
व्यायतोदग्रतुरगैः सुयानैः सुसमाहितैः ॥ १५ ॥
रथैः सांग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ।
हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ॥ १६ ॥
महामात्रोत्तमारूढैः कल्पितै रणकोविदैः ।
स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ॥ १७ ॥
वाजिभिर्वायुसंकाशैः प्लवद्भिरिव पत्तिभिः ।
खड्गचर्मधरोदग्रैः पत्तिभिर्बलिनां वरैः ॥ १८ ॥
सहस्रसंख्यासंयुक्तैरुत्पतद्भिरिवोरगैः ।
एवं चतुर्विधैः सैन्यैः कंपमानैरिवाम्बुदैः ॥ १९ ॥
नृपः प्रयातो बलवाञ्जरासंधो धृतव्रतः ।
स रथैर्मेघनिर्घोषैर्गजैश्च मदसंयुतैः ॥ २० ॥
हेषमाणैश्च तुरगैः क्ष्वेडमानैश्च पत्तिभिः ।
नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च ॥ २१ ॥
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ।
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ॥ २२ ॥
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ।
रथैः पवनसंपातैर्गजैश्च जलदोपमैः ।
तुरगैश्च जवोपेतैः पत्तिभिः खगमोपमैः ॥ २३ ॥
विमिश्रं सर्वतो भाति मत्तद्विपसमाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥ २४ ॥
सबलास्ते महीपाला जरासंधपुरोगमाः ।
परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे ॥ २५ ॥
बभौ तस्य निविष्टस्य फलश्रीः शिबिरस्य वै ।
शुक्लपर्यन्तपूर्णास्य यथा रूपं महोदधेः ॥ २६ ॥
वीतरात्रे ततः काले समुत्तस्थुर्महीक्षितः ।
आरोहणार्थं पुर्यास्ते समीयुर्युद्धलालसाः ॥ २७ ॥
समवायीकृताः सर्वे यमुनामनु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥ २८ ॥
तेशां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणामिव स्वनः ॥ २९ ॥
तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं वदन्तो राजशासनात् ॥ ३० ॥
तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनग्रहस्येव निःशब्दस्य यथोदधेः ॥ ३१ ॥
निःशब्दस्तिमिते तस्मिन् योगादिव महार्णवे ।
जरासंधो बृहद् वाक्यं बृहस्पतिरिवाददे ॥ ३२ ॥
शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् ।
सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ॥ ३३ ॥
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
कार्या भूमिः समा सर्वा जलौघैश्च परिप्लुता ।
ऊर्ध्वं चापा निवाह्यन्तां प्रासा वै तोमरास्तथा ॥ ३४ ॥
दार्यतां चैव टङ्काद्यैः खनित्रैश्च पुरी द्रुतम् ।
नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः ॥ ३५ ॥
अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् ।
यावदेतौ रणे गोपौ वसुदेवसुतावुभौ ॥ ३६ ॥
सङ्कर्षणं च कृष्णं च घातयामि शितैः शरैः ।
आकाशमपि बाणौघैर्निःसंपातं यथा भवेत् ॥ ३७ ॥
मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी ॥ ३८ ॥
मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥ ३९ ॥
द्रुमः किंपुरुषश्चैव पार्वतीयो ह्यनामयः ।
नगर्याः पश्चिमं द्वारं शीघ्रमारोधयन्त्विति ॥ ४० ॥
पौरवो वैणुदारिश्च वैदर्भः सोमकस्तथा ॥
रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ॥ ४१ ॥
विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ।
चागलिः पुरमित्रश्च विराटश्च महीपतिः ॥ ४२ ॥
कौरव्यो मालवश्चैव शतधन्वा विदूरतः ।
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ॥ ४३ ॥
उत्तरं नगरद्वारमेते दुर्गसहा नृपाः ।
आरुह्य चाभिमर्दन्तां वज्रप्रतिमगौरवाः ॥ ४४ ॥
उलूकः कैतवश्चैव वीरश्चांशुमतः सुतः ।
एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः ॥ ४५ ॥
उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा ।
वैदिशो वामदेवश्च सांकृतिश्च सिनीपतिः ॥ ४६ ॥
पूर्वं नगरनिर्व्यूहमेतेष्वायत्तमस्तु नः ।
दारयन्तो विधावन्तु वाता इव बलाहकान् ॥ ४७ ॥
अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं नगरद्वारं पालयामः सुदंशिताः ॥ ४८ ॥
एवमेषा पुरी क्षिप्रं समन्ताद् वेष्टिता बलैः ।
वज्रावपातविषमं प्राप्नोतु तुमुलं भयम् ॥ ४९ ॥
गदिनो ये गदाभिस्ते परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम् ॥ ५० ॥
अद्यैव नगरी ह्येषा विषमोच्चयसंकटा ।
कार्या भूमिसमा सर्वा भवद्भिर्वसुधाधिपैः ॥ ५१ ॥
चतुरङ्गबलैर्व्यूह्य जरासंधो व्यवस्थितः ।
अथाभ्ययाद् यदून् क्रुद्धैः सह सर्वैर्नराधिपैः ॥ ५२ ॥
प्रतिजग्मुर्दशार्हास्तं व्यूढानीकाः प्रहारिणः ।
तद्युद्धमभवद् घोरं तेषां देवासुरोपमम् ।
अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् ॥ ५३ ॥
नगरान्निस्सृतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुभितं नृवरानीकं त्रस्तसंमूढवाहनम् ॥ ५४ ॥
रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥ ५५ ॥
तयोः प्रयुध्यतोः सङ्ख्ये मतिरासीन्महात्मनोः ।
आयुधानां पुराणानामादानकृतलक्षणा ॥ ५६ ॥
ततः खान्निपतन्ति स्म दिव्यान्याहवसंप्लवे ।
लेलिहानानि दीप्तानि महान्ति सुदृढानि च ॥ ५७ ॥
क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम् ॥ ५८ ॥
दिव्यस्रग्धामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि पतमानानि चाम्बरात् ॥ ५९ ॥
हलम् संवर्तकं नाम सौनन्दं मुसलं तथा ।
धनुषां प्रवरं शार्ङ्गं गदा कौमोदकी तथा ॥ ६० ॥
चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥ ६१ ॥
जग्राह प्रथमं रामो ललामप्रतिमं हलम् ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं मृधे ॥ ६२ ॥
सौनन्दं च ततः श्रीमान् निरानन्दकरं द्विषाम् ।
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ॥ ६३ ॥
दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ।
नाम्ना शार्ङ्गमिति ख्यातं कृष्णो जग्राह वीर्यवान् ॥ ६४ ॥
देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥ ६५ ॥
तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान् प्रत्ययुद्ध्यताम् ॥ ६६ ॥
सायुधप्रग्रहौ वीरौ तावन्योन्याश्रयावुभौ ।
पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ ॥ ६७ ॥
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ।
विचेरतुर्यथा देवौ वसुदेवसुतावुभौ ॥ ६८ ॥
हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः ।
चचार समरे वीरो विद्विषामन्तको यथा ॥ ६९ ॥
विकर्षन् रथवृंदानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च ॥ ७० ॥
कुन्जराल्लाँगलक्षिप्तान् मुसलाक्षेपताडितान् ।
रामो विराजन्समरे निर्ममन्थ यथाचलान् ॥ ७१ ॥
ते वध्यमाना रामेण रणे क्षत्रियपुङ्गवाः ।
जरासंधान्तिकं भीताः समरात्प्रतिजग्मिरे ॥ ७२ ॥
तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥ ७३ ॥
परावृत्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥ ७४ ॥
भीताः कस्मान्निवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ।
क्षिप्रं सर्वे निवर्तध्वं मम वाक्येन चोदिताः ॥ ७५ ॥
अथवा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥ ७६ ॥
ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः ।
सृजन्तः शरजालानि हृष्टा योद्धुं व्यवस्थिताः ॥ ७७ ॥
ते हयैः काञ्चनापीडै रथैश्चाम्बुदनादिभिः ।
नादैश्चाम्बुदसंकाशैर्महामात्रप्रचोदितैः ॥ ७८ ॥
सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः ।
स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः ॥ ७९ ॥
सच्छत्राः सादिनश्चैव चारुचामरवीजिताः ।
रणे तेऽधिगता रेजुः स्यन्दनस्था महीक्षितः ॥ ८० ॥
ते युद्धरागा रथिनो व्यागाहन्त युधां वराः ।
गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ॥ ८१ ॥
एतस्मिन्नन्तरे तत्र देवानां नन्दिवर्धनः ।
सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम् ॥ ८२ ॥
समभ्ययाज्जरासंधं शरैर्विव्याध चाष्टभिः ।
सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः ॥ ८३ ॥
जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् ।
तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः ॥ ८४ ॥
सेनानीः कैशिकश्चैव कृष्णं विविधतुः शरैः ।
त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः ॥ ८५ ॥
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।
जवेनाभ्यर्दयच्चापि तानरीञ्छरवृष्टिभिः ॥ ८६ ॥
बहुभिर्बहुधा वीरान् समन्तात् स्वर्णभूषणैः ।
तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः ॥ ८७ ॥
कैशिकः पञ्चभिश्चापि जरासंधश्च सप्तभिः ।
त्रिभिस्त्रिभिश्च नराचैस्तान् बिभेद जनार्दनः ॥ ८८ ॥
पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः ।
रथं चैवास्य चिच्छेद चित्रसेनस्य वीर्यवान् ॥ ८९ ॥
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।
स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ॥ ९० ॥
अभ्यधावत् सुसंरब्धो जिघांसुर्मुसलायुधम् ।
सिसृक्षतस्तु नाराचांश्चित्रसेनवधैषिणः ।
धनुश्चिच्छेद रामस्य जरासंधो महाबलः ॥ ९१ ॥
गदया च जघानाश्वान्क्रोधात् स मगधेश्वरः ।
रामं चाभ्यद्रवद् वीरो जरासंधो महाबलः ॥ ९२ ॥
आदाय मुसलं रामो जरासंधमुपाद्रवत् ।
तयोस्तद् युद्धमभवत् परस्परवधैषिणोः ॥ ९३ ॥
चित्रसेनस्तु संसक्तं दृष्ट्वा रामेण मागधम् ।
रथमन्यं समारुह्य जरासंधमवारयत् ॥ ९४ ॥
ततो बलेन महता गजानीकेन चाप्यथ ।
उभयोरन्तरे ताभ्यां संकुलं समपद्यत ॥ ९५ ॥
ततः सैन्येन महता जरासंधोऽभिसंवृतः ।
रामकृष्णाग्रगान् भोजानाससाद महाबलः ॥ ९६ ॥
तत्र प्रक्षुभितस्येव सागरस्य महास्वनः ।
प्रादुर्बभूव तुमुलः सेनयोरुभयोरपि ॥२ ९७ ॥
वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः ।
उभयोः सेनयो राजन् प्रादुरासीन्महास्वनः ॥ ९८ ॥
क्ष्वेडीतास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत् ।
उत्पपात रजश्चापि खुरनेमिसमुद्धतम् ॥ ९९ ॥
समुद्यतमहाशस्त्राः प्रगृहीतशरासनाः ।
अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे ॥ १०० ॥
रथिनः सादिनश्चैव पत्तयश्च सह्स्रशः ।
गजाश्चातिबलास्तत्र समुत्पेतुः समन्ततः ॥ १०१ ॥
स सन्निपातस्तुमुलस्त्यक्त्वा प्राणानवर्तत ।
वृष्णिभिः सह योधानां जरासंधस्य दारुणः ॥ १०२ ॥
ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः ।
बलदेवं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः ॥ १०३ ॥
दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत ।
पालितं चेदिराजेन जरासंधेन वा विभो ॥ १०४ ॥
उदीच्यैश्च महावीर्यैः शल्यशाल्वादिभिर्नृपैः ।
सृजन्तः शरवर्षाणि समभित्यक्तजीविताः ॥ १०५ ॥
अवगाहः पृथुः कङ्कः शतद्युम्नो विदूरथः ।
हृषीकेशं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः ॥ १०६ ॥
भीष्मकेणाभिगुप्तश्च रुक्मिणा च महात्मना ।
देवकेनापि राजेन्द्र तथा मद्रेश्वरेण च ॥ १०७ ॥
प्राच्यैश्च दाक्षिणात्यैश्च गुप्तवीर्यबलान्वितैः ।
तेषां च युद्धमभवत् समभित्यक्तजीवितम् ।
शक्त्यृष्टिप्रासबानौघान् सृजतामशनिस्वनान् ॥ १०८ ॥
सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् ।
राजाधिदेवो मृदुरः श्वफल्कश्च महारथः ॥ १०९ ॥
सत्राजिच्च प्रसेनश्च बलेन महता वृताः ।
व्यूहस्य पक्षं ते सर्वे प्रतीयुर्द्विषतां मृधे ॥ ११० ॥
व्यूहस्यार्द्धं समासेदुर्मृदुरेणाभिरक्षिताः ।
राजभिश्चापि बहुभिर्वैणुदारिमुखैः सह ॥ १११ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
मथुरोपरोधे युद्धवर्णने पञ्चत्रिंशोऽध्यायः ॥
GO TOP
|