श्रीहरिवंशपुराण विष्णुपर्व अष्टचत्वारिंशोऽध्यायः
विदर्भसभायां जरासंधसुनीथयोर्भाषणम्
वैशम्पायन उवाच
ते कृष्णमागतं दृष्ट्वा वैनतेयसहाच्युतम् ।
बभूवुश्चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः ॥ १ ॥
ते समेत्य सभां राजन् राजानो भीमविक्रमाः ।
मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमाः ॥ २ ॥
भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृताम् ।
सिंहासनेषु चित्रेषु विचित्रास्तरणेषु च ।
निषेदुस्ते नृपवरा देवा देवसभामिव ॥ ३ ॥
तेषां मध्ये महाबाहुर्जरासंधो महाबलः ।
बभाषे स महातेजा देवान् देवेश्वरो यथा ॥ ४ ॥
जरासंध उवाच
श्रूयतां भो नृपश्रेष्ठा भीषमकश्च महामतिः ।
कथ्यमानं मया बुद्ध्या वचनं वदतां वराः ॥ ५ ॥
योऽसौ कृष्ण इति ख्यातो वसुदेवसुतो बली ।
वैनतेयसहायेन संप्राप्तः कुण्डिनं त्विह ॥ ६ ॥
कन्याहेतोर्महातेजा यादवैरभिसंवृतः ।
अवश्यं कुरुते यत्नं कन्यावाप्तिर्यथा भवेत् ॥ ७ ॥
यदत्र कारणं कार्यं सुनयोपेतमृद्धितम् ।
कुरुध्वं नृपशार्दूला विनिश्चित्य बलाबलम् ॥ ८ ॥
पदातिनौ महावीर्यौ वसुदेवसुतावुभौ ।
वैनतेयं विना तस्मिन् गोमन्ते पर्वतोत्तमे ।
कृतवन्तौ महाघोरं भवद्भिर्विदितं हि तत् ॥ ९ ॥
वृष्णिभिर्यादवैश्चैव भोजान्धकमहारथैः ।
समेत्य युद्ध्यमानस्य कीदृशो विग्रहो भवेत् ॥ १० ॥
कन्यार्थे यततानेन गरुडस्थेन विष्णुना ।
कः स्थास्यति रणे तस्मिन्नपि शक्रः सुरैः सह ॥ ११ ॥
यदा चास्मै नापि सुता कदाचित्संप्रदीयते ।
ततो ह्ययं बलादेनां नेतुं शक्तः सुरैः सह ॥ १२ ॥
पुरा एकार्णवे घोरे श्रूयते मेदिनी त्वियम् ।
पातालतलसंमग्ना विष्णुना प्रभविष्णुना ॥ १३ ॥
वाराहं रूपमास्थाय उद्धृता जगदादिना ।
हिरण्याक्षश्च दैत्येन्द्रो वराहेण निपातितः ॥ १४ ॥
हिरण्यकशिपुश्चैव महाबलपराक्रमः ।
अवध्योऽमरदैत्यानामृषिगन्धर्वकिन्नरैः ॥ १५ ॥
यक्षराक्षसनागानां नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न शुष्केणार्द्रकेण च ॥ १६ ॥
अवध्यस्त्रिषु लोकेषु दैत्येन्द्रस्त्वपराजितः ।
नारसिम्हेन रूपेण निहतो विष्णुना पुरा ॥ १७ ॥
वामनेन तु रूपेण कश्यपस्यात्मजो बली । ॥
अदित्या गर्भसंभूतो बलिर्बद्धोऽसुरोत्तमः ॥ १८ ॥
सत्यरज्जुमयैः पाशैः कृतः पातालसंश्रयः ।
कार्तवीर्यो महावीर्यः सहस्रभुजविग्रहः ॥ १९ ॥
दत्तात्रेयप्रसादेन मत्तो राज्यमदेन च ।
जामदग्न्यो महातेजा रेणुकागर्भसंभवः ॥ २० ॥
त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः ।
पर्शुना वज्रकल्पेन सप्तद्वीपेश्वरो नृपः ।
विष्णुना निहतो भूयः छद्मरूपेण हैहयः । २१ ॥
इक्ष्वाकुकुलसंभूतो रामो दाशरथिः पुरा ।
त्रिलोकविजयं वीरं रावणं संन्यपातयत् ॥ २२ ॥
पुरा कृतयुगे विष्णुः संग्रामे तारकामये ।
षोडशार्द्धभुजो भूत्वा गरुडस्थो हि वीर्यवान् ॥ २३ ॥
निजघानासुरान् युद्धे वरदानेन गर्वितान् ।
कालनेमिश्च दैतेयो देवानां च भयप्रदः ॥ २४ ॥
सहस्रकिरणाभेन चक्रेण निहतो युधि ।
महायोगबलेनाजौ विश्वरूपेण विष्णुना । २५ ॥
अनेन प्राप्तकालास्ते निहता बहवोऽसुराः ।
वने वनचरा दैत्या महाबलपराक्रमाः ॥ २६ ॥
निहता बालभावेन प्रलम्बारिष्टधेनुकाः ।
शकुनीं केशिनं चैव यमलार्जुनकावपि ॥ २७ ॥
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा । ॥
कंसं च बलिनां श्रेष्ठं सगणं देवकीसुतः ॥ २८ ॥
न्यहनद् गोपवेषेण क्रीडमानो हि केशवः ।
एवमादीनि दिव्यानि छद्मरूपाणि चक्रिणा ॥ २९ ॥
कृतानि दिव्यरूपाणि विष्णुना प्रभविष्णुना ।
तेनाहं वः प्रवक्ष्यामि भवतां हितकाम्यया ॥ ३० ॥
तं मन्ये केशवं विष्णुं सुराद्यमसुरान्तकम् ।
नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम् ॥ ३१ ॥
स्रष्टारं सर्वभूतानां व्यक्ताव्यक्तं सनातनम् ।
अदृश्यं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ ३२ ॥
अनादिमध्यनिधनं क्षरमक्षरमव्ययम् ।
स्वयंभुवमजं स्थाणुमजेयं सचराचरैः ॥ ३३ ॥
त्रिविक्रमं त्रिलोकेशं त्रिदशेन्द्रारिनाशनम् ।
इति मे निश्चिता बुद्धिर्जातोऽयं मथुरामधि ॥ ३४ ॥
कुले महति वै राज्ञां विपुले चक्रवर्तिनाम् ।
कथमन्यस्य मर्त्यस्य गरुडो वाहनं भवेत् ॥ ३५ ॥
विशेषेण तु कन्यार्थे विक्रमस्थे जनार्दने ।
कः स्थास्यति पुमानद्य गरुडस्याग्रतो बली ॥ ३६ ॥
स्वयंवरकृतेनासौ विष्णुः स्वयमिहागतः ।
विष्णोरागमने चैव महान् दोषः प्रकीर्तितः ॥ ३७ ॥
भवद्भिरनुचिन्त्येदं क्रियतां यदनन्तरम् ।
वैशम्पायन उवाच
एवं विब्रुवमाणे तु मगधाणां जनेश्वरे ॥ ३८ ॥
सुनीथोऽथ महाप्राज्ञो वचनं चेदमब्रवीत् ।
सुनीथ उवाच
सम्यगाह महाबाहुर्मगधाधिपतिर्नृपः ॥ ३९ ॥
समक्षं नरदेवानां यथावृत्तं महाहवे ।
गोमन्ते रामकृष्णाभ्यां कृतं कर्म सुदुष्करम् ॥ ४० ॥
गजाश्वरथसंबाधा पत्तिध्वजसमाकुला ।
निर्दघ्दा महती सेना चक्रलाङ्गलवह्निना ॥ ४१ ॥
तेनायं मागधः श्रीमाननागतमचिन्तयत् ।
ब्रुवते राजसेनायामनुस्मृत्य सुदारुणम् ॥ ४२ ॥
पदात्योर्युध्यतोस्तत्र बलकेशवयोर्युधि ।
दुर्निवार्यतरो घोरो ह्यभवद् वाहिनीक्षयः ॥ ४३ ॥
विदितं वः सुपर्णस्य स्वागतस्य नृपोत्तमाः ।
पक्षवेगानिलोद्धूता बभ्रमुर्गगनेचराः ॥ ४४ ॥
समुद्राः क्षुभिताः सर्वे चचालाद्रिर्मही मुहुः ।
वयं सर्वे सुसंत्रस्ताः किमुत्पातेति विक्लवाः ॥ ४५ ॥
यदा संनह्य युध्येत आरूढः केशवः खगम् ।
कथमस्मद्विधः शक्तः प्रतिस्थातुं रणाजिरे ॥ ४६ ॥
राज्ञां स्वयंवरो नाम सुमहान् हर्षवर्धनः ।
कृतो नरवरैराद्यैर्यशो धर्मस्य वै विधिः ॥ ४७ ॥
इदं तु कुण्डिनगरमासाद्य मनुजेश्वराः ।
पुनरेवैष्यते क्षिप्रं महापुरुषविग्रहम् ॥ ४८ ॥
यदि सा वरयेदन्यं राज्ञां मध्ये नृपात्मजा ।
कृष्णस्य भुजयोर्वीर्यं कः पुमान् प्रसहिष्यति ॥ ४९ ॥
विज्ञापितमिदं दोषं स्वयंवरमहोत्सवम् ।
तदर्थमागतः कृष्णो वयं चैव नराधिपाः ॥ ५० ॥
कृष्णस्यागमनं चैव नृपाणामतिगर्हितम् ।
कन्याहेतोर्नरेन्द्राणां यथा वदति मागधः ॥ ५१ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
रुक्मिणीस्वयंवरे सुनीथवाक्ये अष्टचत्वारिंशोऽध्यायः ॥
GO TOP
|