श्रीहरिवंशपुराण विष्णुपर्व एकोनपञ्चाशत्तमोऽध्यायः
दन्तवक्त्रस्य भाषणं भीष्मकस्य निर्णयश्च
वैशम्पायन उवाच
इत्येवमुक्ते वचने सुनीथेन महात्मना ।
करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत ॥ १ ॥
दन्तवक्त्र उवाच
यदुक्तं मागधेनात्र सुनीथेन नराधिपाः ।
युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम् ॥ २ ॥
न च विद्वेषणेनाहं न चाहंकारवादिना ।
न चात्मविजिगीषुत्वाद् दूषयामि वचोऽमृतम् ॥ ३ ॥
वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।
क एष निखिलं वक्तुं शक्तो वै राजसंसदि ॥ ४ ॥
किं त्वनुस्मरणार्थेऽहं यद्ब्रवीमि शृणुष्व मे ।
आगतो वासुदेवेति किमाश्चर्यं नराधिपाः ॥ ५ ॥
यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः ।
किमत्र दोशो गौण्यो वा कन्याहेतोः समागताः ॥ ६ ॥
यदस्माभिः समेत्यैक्यात् कृतं गोमन्तरोधनम् ।
तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ ॥ ७ ॥
वनवासे स्थितौ वीरौ कंसव्यामोहहेतुना ।
देवर्षिवचनाद् राजन् वृन्दावनतटे स्थितौ ॥ ८ ॥
तावाहूय वधार्थेन उभौ रामजनार्दनौ ।
नगेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ॥ ९ ॥
ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे ।
गतासुरिव चासीनो मथुरेशः सहानुगः ॥ १० ॥
किमत्र विहितो दोषो येनास्माभिर्वयोऽधिकैः ।
उपरोधपरा राजन् वयं सर्वे सामागताः ॥ ११ ॥
सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ ।
पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ ॥ १२ ॥
तत्रापि गतमस्माभिर्हन्तुं समरयोधिभिः ।
अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ॥ १३ ॥
रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः ।
कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः ॥ १४ ॥
दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ ।
विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः ।
प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम् ॥ १५ ॥
यत्र यत्र प्रयास्यामो वयं तत्र भवेत् कलिः ।
प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ॥ १६ ॥
इदं कुण्डिनपुरं कृष्णो नागतः कलिहेतुना ।
कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ॥ १७ ॥
मर्त्येऽस्मिन् पुरुषेन्द्रोऽसौ न कश्चित् प्राकृतो नरः ।
देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः ॥ १८ ॥
देवानामपि कर्तासौ लोकानां च विशेषतः ।
न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः ॥ १९ ॥
न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ॥ २० ॥
आगतो गरुडेनेह च्छद्मप्राकाश्यहेतुना ।
नानास्त्रसहितो याति कृष्णः शत्रुविनाशने ॥ २१ ॥
इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः ।
सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह ॥ २२ ॥
अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः ।
करिष्यामो वयं सर्वे केशवाय महात्मने ॥ २३ ॥
एवं संधानतः कृत्वा कृष्णेन सहिता वयम् ।
वसामो विगतोद्वेगा निर्भया विगतज्वराः ॥ २४ ॥
तस्य तद् वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।
शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान् ॥ २५ ॥
शाल्व उवाच
किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।
संधानकरणाद्धेतोः कृष्णस्य भयकम्पिताः ॥ २६ ॥
परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः ।
नैष धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम् ॥ २७ ॥
महत्सु राजवंशेषु संभूताः कुलवर्द्धनाः ।
तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति ॥ २८ ॥
अहं जानामि वै कृष्णमादिदेवं सनातनम् ।
प्रभुं सर्वामरेन्द्राणां नारायणपरायणम् ॥ २९ ॥
वैकुण्ठमजयं लोके चराचरगुरुं हरिम् ।
संभूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ॥ ३० ॥
कंसराजवधार्थाय भारावतरणाय च ।
अस्माकं च विनाशाय लोकसंरक्षणाय च ॥ ३१ ॥
अंशावतरणे कृत्स्नं जाने विष्णोर्विचेष्टितम् ।
संग्राममतुलं कृत्वा विष्णुना सह भूमिपाः ॥ ३२ ॥
चक्रानलविनिर्दग्धा यास्यामो यमसादनम् ।
तत्त्वं जानामि राजेन्द्राः कालेनायुःक्षयो भवेत् ॥ ३३ ॥
नाकाले म्रियते कश्चित् प्राप्ते काले न जीवति ।
एवं विनिश्चयं कृत्वा न कुर्यात् कस्यचिद् भयम् ॥ ३४ ॥
स एव भगवान् विष्णुरालोक्य तपसः क्षयम् ।
निहन्ता दितिजेन्द्राणां यथाकालेन योगवित् ॥ ३५ ॥
बलिं वैरोचनिं चैवं बद्ध्वावध्यं महाबलम् ।
कृतवान् देवदेवेशः पातालतलवासिनम् ॥ ३६ ॥
एवमादीनि वै विष्णोश्चेष्टानि च नराधिपाः ।
तस्मादयुक्तं भवतां विग्रहार्थं विचारणम् ॥ ३७ ॥
न च संग्रामहेतोर्हि कृष्णस्यागमनं त्विह ।
यस्य वा कस्य वा कन्या वरयिष्यति तस्य सा ।
किमत्र विग्रहो राज्ञां प्रीतिर्भवतु वै ध्रुवम् ॥ ३८ ॥
वैशम्पायन उवाच
एवं कथयमानानां नृपाणां बुद्धिशालिनाम् ।
न किञ्चिदब्रवीद् राजा भीष्मकः पुत्रकारणात् ॥ ३९ ॥
महावीर्यमदोत्सिक्तं भार्गवास्त्राभिरक्षितम् ।
रणप्रचण्डातिरथं विचिन्त्य मनसा सुतम् ॥ ४० ॥
भीष्मक उवाच
कृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः ।
नित्याभिमानी च रणे न बिभेति च कस्यचित् ॥ ४१ ॥
कृष्णस्य भुजवीर्येण ह्रियते नात्र संशयः ।
भविष्यति ततो युद्धं महापुरुषविग्रहम् ॥ ४२ ॥
द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः ।
जीवितं नात्र पश्यामि मम पुत्रस्य केशवात् ॥ ४३ ॥
कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्द्धनम् ।
कारयिष्ये कथं युद्धं पुत्रेण सह केशवम् ॥ ४४ ॥
न च नारायणं देवं वरमिच्छति रुक्मवान् ।
मूढभावो मदोन्मत्तः संग्रामेष्वनिवर्तकः ।
नियतं भस्मसाद् याति तूलराशिर्यथानलात् ॥ ४५ ॥
करवीरेश्वरः शूरः शृगालश्चित्रयोधिना ।
क्षणेन भस्मसान्नीतः केशवेन बलीयसा ॥ ४६ ॥
वृन्दावनेऽवसच्छ्रीमान् केशवो बलिनां वरः ।
उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान् गिरिम् ॥ ४७ ॥
दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम् । ४८ ॥
नगेन्द्रे सहसाऽऽगम्य देवतैः सह वृत्रहा ।
अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः ॥ ४९ ॥
यथा वै दमितो नागः कालियो यमुनाह्रदे ।
विषाग्निज्वालितो घोरः कालान्तकसमप्रभः ॥ ५० ॥
केशी चापि महावीर्यो दानवो हयविग्रहः । ॥
निहतो वासुदेवेन देवैरपि दुरासदः ॥ ५१ ॥
सान्दीपनिसुतश्चैव चिरनष्टो हि सागरे ।
दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात् ॥ ५२ ॥
गोमन्ते सुमहद् युद्धं बहुभिर्वेष्टितावुभौ ।
कृत्वा वित्रासजननं नागाश्वरथसंक्षयम् ॥ ५३ ॥
गजेन गजवृन्दानि रथेन रथयोधिनः ।
सादिनश्चाश्वयोधेन नरेण च पदातिनः ।
जघ्नतुस्तौ महावीर्यौ वसुदेवसुतावुभौ ॥ ५४ ॥
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः ॥ ५५ ॥
कृतवन्तस्तथा घोरं गजाश्वरथसंक्षयम् ।
तमनुस्मृत्य संग्रामं भृशं सीदति मे मनः ॥ ५६ ॥
न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतोऽपि वा ।
तादृशो भुवि मर्त्योऽन्यो वासुदेवात् सुरोत्तमात् ॥ ५७ ॥
सम्यगाह महाबाहुर्दन्तवक्त्रो महीपतिः ।
सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम् ॥ ५८ ॥
वैशम्पायन उवाच
इति सञ्चिन्त्य मनसा बलाबलविनिश्चयम् ।
गमनाय मतिं चक्रे प्रसादयितुमच्युतम् ॥ ५९ ॥
चिन्तयानो नरेन्द्रस्तु बहुभिर्नयशालिभिः ।
सूतमागधवन्दिभ्यो बोधितः स्तुतिमङ्गलैः ॥ ६० ॥
प्रभातायां रजन्यां तु कृतपूर्वाह्निकक्रियाः ।
उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु ॥ ६१ ॥
ये विसृष्टास्तु राजानो विदर्भायां नराधिपैः ।
तैरागम्य स्वभूपेषु रहो गत्वा निवेदितम् ॥ ६२ ॥
श्रुत्वा कृष्णाभिषेकं तु केचिद्धृष्टा नराधिपाः ।
केचिद् दीनतरा भीता उदासीनास्तथा परे ॥ ६३ ॥
त्रिधा प्रभिन्ना सा सेना नरनागाश्वमालिनी ।
महार्णव इव क्षुब्धा अभिषेकेण चालिता ॥ ६४ ॥
नृपाणां भेदमालोक्य भीष्मको राजसत्तमः ।
व्यतिक्रममचिन्त्यं च कृतं नृपतिना स्वयम् ॥ ६५ ॥
विचिन्त्य मनसा राजा दह्यमानेन चेतसा ।
जगाम नरदेवानां समाजे प्रतिबोधितुम् ॥ ६६ ॥
एतस्मिन्नन्तरे दूताः संप्राप्ताः क्रथकैशिकौ ।
लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम् ॥ ६७ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
रुक्मिणीस्वयंवरे एकोनपञ्चाशत्तमोऽध्यायः ॥
GO TOP
|