श्रीहरिवंशपुराण विष्णुपर्व पञ्चाशत्तमोऽध्यायः
भीष्मकसंसदि कृष्णेनाश्वासनम्
जनमेजय उवाच
हत्वा कंसं महावीर्यं देवैरपि दुरासदम् ।
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ॥ १ ॥
कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः ।
अमानमतुलं प्राप्य क्षान्तवान् केन हेतुना ॥ २ ॥
विनतायाः सुतश्चैव महाबलपराक्रमः ।
स चापि क्षमया युक्तः कारणं किमपेक्षितः ।
एतदाख्याहि भगवन्परं कौतूहलं हि मे ॥ ३ ॥
वैशम्पायन उवाच
विदर्भनगरीं प्राप्ते वैनतेये सहाच्युते ।
मनसा चिन्तयामास वासुदेवाय कैशिकः ॥ ४ ॥
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् राजन्यान् प्रवदाम्यहम् ।
वसुदेवसुते दृष्टे ध्रुवं पापक्षयो भवेत् ॥ ५ ॥
विशुद्धभावः कृष्णस्य आवयोर्दृष्टतत्त्वतः ।
अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते ॥ ६ ॥
कृष्णात् कमलपत्राक्षाद् देवदेवाज्जनार्दनात् ।
तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ॥ ७ ॥
पात्रमासाद्य वै राजन् यथा धर्मो न लुप्यते ।
एवमन्योन्यं संचिन्त्य भ्रातरौ क्रथकैशिकौ ॥ ८ ॥
स्वं राज्यं दातुकामौ तु जग्मतुः केशवान्तिकम् ।
देवमासाद्य तौ वीरौ विदर्भनगराधिपौ ॥ ९ ॥
ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् ।
अद्यावां सफलं जन्म अद्यावां सफलं यशः ।
अद्यावां पितरस्तृप्ता देवे चावां गृहागते ॥ १० ॥
चामरं व्यजनं छत्रं ध्वजं सिंहासनं बलम् ।
स्फीतकोशा पुरी चेयमावाभ्यां सुहिता तव ॥ ११ ॥
उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।
आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते ॥ १२ ॥
आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि ।
न शक्यतेऽन्यथा कर्तुं जरासंधेन वा स्वयम् ॥ १३ ॥
शत्रुस्ते मागधो राजा जरासंधो महाद्युतिः ।
कथां ते ब्रुवते नित्यं नृपाणामभयप्रदः ॥ १४ ॥
सिंहासनमनध्यास्यं पुरं चास्य न विद्यते ।
कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः ॥२०-५०-१५ ॥
कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः ।
न चागमिष्यते वास्मिन् कन्यार्थे च स्वयंवरे ॥ १६ ॥
पार्थिवेषूपविष्टेषु स्वेषु सिंहासनेषु वै ।
कथमास्यति नीचेषु आसनेषु महाद्युतिः ॥ १७ ॥
इति संचोद्यमानस्तु श्रुत्वासौ भीष्मको नृपः ।
आवयोः सह संमन्त्र्य विग्रहोपशमार्थिना ॥ १८ ॥
तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् ।
देवानामादिदेवोऽसि सर्वलोकनमस्कृतः ॥ १९ ॥
मानुष्ये मर्त्यलोकेऽस्मिन् राजेन्द्रत्वं समाचर ।
समाजे मनुजेन्द्राणां मा भूदासनसंकटम् ॥ २० ॥
विदर्भनगरे वैषां राजेन्द्रत्वं विचेष्टय ।
आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते ॥ २१ ॥
अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा ।
यथा गमिष्यन्ति नृपाः करिष्ये देवशासनात् ॥ २२ ॥
एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।
प्रेषयामासतुर्वीरौ रङ्गमध्ये नृपैर्वृते ॥ २३ ॥
एवं दूतस्य वचनं यथोक्तं वज्रपाणिना ॥
लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ॥ २४ ॥
कैशिक उवाच
विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।
आगतोऽतिथिरूपेण विदर्भनगरीं हरिः ॥ २५ ॥
प्राप्तमालोक्य पात्रोऽयमिति संचिन्त्य भूपतिः ।
प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ॥ २६ ॥
इदमासनमास्वेति भ्रात्रा मे चोदिते ततः ।
वागुक्ता चाशरीरेण केनापि व्योमचारिणा ॥ २७ ॥
देवदूत उवाच
न युक्तमासनं दातुं त्वयाऽऽसीनं नराधिप ।
इदमस्यासनं दिव्यं सर्वरत्नविभूषितम् ॥ २८ ॥
जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा ।
प्रेषितं देवराजेन सिम्हलक्षणलक्षितम् ॥ २९ ॥
अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।
अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह ॥ ३० ॥
आगताः कुण्डिनगरे कन्याहेतोर्नराधिपाः ।
नागमिष्यति यः कश्चित् सोऽस्य वध्यो भविष्यति ॥ ३१ ॥
इमे चैवाष्टकलशा निधीनामंशसंभवाः ।
अक्षया राजराजस्य धनेशस्य महात्मनः ॥ ३२ ॥
दिव्याः काञ्चनरत्नाढ्या दिव्याभरणयोनयः ।
राजेन्द्रस्याभिषेकार्थमागच्छन्ति नृपैर्वृताः ॥ ३३ ॥
एष शक्रस्य संदेशः कथितो वो नराधिपाः ।
लेखेनाहूय तान् सर्वानभिषिञ्चन्तु केशवम् ॥ ३४ ॥
कैशिक उवाच
इति संचोद्य खस्थोऽसौ देवदूतो गतो दिवम् ।
दत्त्वाऽऽसनं च कृष्णाय बालार्कसदृशप्रभम् ॥ ३५ ॥
तेनाहं नोदयिष्यामि भवद्भिर्ये समागताः ।
दुर्निवार्यतरं घोरं शक्रस्य स्वयमीरितम् ॥ ३६ ॥
युष्माभिर्दर्शने युक्तमद्भुतं भुवि दुर्लभम् ।
कलशैरभिषिच्यन्तं स्वयमेव नभस्तलात् ॥ ३७ ॥
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् ध्रुवं पापक्षयो भवेत् ।
स्नापनार्थे च कृष्णाय देवदेवाय विष्णवे ॥ ३८ ॥
आगच्छध्वं नृपश्रेष्ठा न भयं कर्तुमर्हथ ।
आवयोः कृतसन्धानो युष्मदर्थे जनार्दनः ॥ ३९ ॥
सर्वेषां मनुजेन्द्राणामभयं कुरुते हरिः ।
विशुद्धभावः कृष्णस्तु आवयोर्दृष्टतत्त्वतः ॥ ४० ॥
मागधस्य विशेषेण न वैरं हृदि दृश्यते ।
यदत्र कारणं कार्यं तद् भवद्भिर्विचिन्त्यताम् ॥ ४१ ॥
वैशम्पायन उवाच
एवं सञ्चिन्तयामासुर्नृपाः शापभयार्दिताः ।
भूयः शुश्रुवू राजेन्द्राः केशवाय महत्मने ॥ ४२ ॥
मेघगम्भीरनादेन स्वरेणापूरयन्नभः ।
वागुवाचाशरीरेण देवराजस्य शासनात् ॥ ४३ ॥
चित्राङ्गद उवाच
त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना ।
आज्ञापयति युष्माकं नृपाणां हितकाम्यया ॥ ४४ ॥
न युक्तं वसतान्योन्यं कृष्णेन सह वैरिणा ।
वसध्वं प्रीतिमुत्पाद्य स्वराष्ट्रेषु नृपोत्तमाः ॥ ४५ ॥
प्रणतार्तिहरः कृष्णः प्रतिसेनान्तकोऽनलः ।
अनेन सह संप्रीत्या मोदध्वं विगतज्वराः ॥ ४६ ॥
मानुषाणां नृपा देवा नृपाणां देवताः सुराः ।
सुराणां देवता शक्रः शक्रस्यापि जनार्दनः ॥ ४७ ॥
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ।
जातोऽयं मानुषे लोके नररूपेण केशवः ॥ ४८ ॥
अजेयः सर्वलोकेषु देवदानवमानवैः ।
कार्तिकेयसहायस्य अपि शूलभृतः स्वयम् ॥ ४९ ॥
तस्मै देवाधिदेवाय केशवाय महात्मने ।
अभिषेक्तुं सुरैः सार्धं किमिच्छेयमतः परम् ॥ ५० ॥
न चाधिकारो देवानां राजेन्द्रस्याभिषेचने ।
तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् ॥ ५१ ॥
नृपाणामधिकारोऽयं राजेन्द्रस्य निवेशने ।
गत्वा यूयं विदर्भायां क्रथकैशिकयोः सह ॥ ५२ ॥
संचिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः ।
प्रीतिसन्धानकालोऽयमिति संचिन्त्य वासवः ॥ ५३ ॥
बोधनार्थं विसृष्टोऽहं युष्माकं मनुजेश्वराः ।
विदर्भनगरे कृष्णः श्रावितोऽस्याधिवासनम् ॥ ५४ ॥
राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ ।
ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहदुत्सवम् ॥ ५५ ॥
अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणाम् ।
आगमिष्यथ संहृष्टाः पुनरेव स्वयंवरम् ॥ ५६ ॥
जरासंधः सुनीथश्च रुक्मी चैव महारथः ।
शाल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः ॥ ५७ ॥
रङ्गस्याशून्यहेतोर्हि तिष्ठन्तु इह पार्थिवाः ।
वैशम्पायन उवाच
एवमाज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् ॥ ५८ ॥
गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः ।
अनुज्ञाता नरेन्द्रेण जरासंधेन धीमता ॥ ५९ ॥
भीष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर्वृताः ।
भीष्मकश्च महाबाहुः स्वबलेन समन्वितः ॥ ६० ॥
जगाम पार्थिवैः सार्धं दह्यमानेन चेतसा ।
यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने ॥ ६१ ॥
दूरादेव प्रकाशन्ती पताकाध्वजमालिनी ।
शुभा देवसभा रम्या स्नानहेतोरिहागता ॥ ६२ ॥
दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला ।
दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता ॥ ६३ ॥
दिव्यस्रग्दामकलिला दिव्यगन्धादिवासिता ।
विमानयानैः श्रीमद्भिः समन्तात्परिवारिता ॥ ६४ ॥
दिव्याप्सरोगणाश्चैव विद्याधरगणास्तथा ।
गन्धर्वा मुनयश्चैव किन्नराश्च समन्ततः ॥ ६५ ॥
उपगायन्ति देवेशमम्बरान्तरमाश्रिताः ।
स्तुवन्ति मुनयश्चैव सिद्धाश्च परमर्षयः ॥ ६६ ॥
देवदुन्दुभयश्चैव स्वयमेवानदन् दिवि ।
पञ्चयोनिसमुत्थानि गन्धचूर्णान्यनेकशः ॥ ६७ ॥
समन्तात्पात्यमानानि चाकाशस्थैर्दिवौकसैः ।
स्वयमागत्य देवेन्द्रो देवैः सह शचीपतिः ॥ ६८ ॥
विमानवरमारुह्य सप्रकाशः स्थितोऽम्बरे ।
अष्टौ ये लोकपालास्ते स्वासु दिक्षु समास्थिताः ॥ ६९ ॥
उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः ।
श्रुत्वा सुतुमुलं नादं सर्व एव नराधिपाः ॥ ७० ॥
विस्मयोत्फुल्लनयना विविशुस्ते सभां शुभाम् ।
कैशिकश्च महाबाहुरुपगम्य नराधिपान् ॥ ७१ ॥
प्रवेशयामास बली प्रतिपूज्य यथाविधि ।
निवेदिते सुरश्रेष्ठे पार्थिवानां समागमे ॥ ७२ ॥
निर्जगाम हरिः श्रीमान् सर्वमङ्गलपूजितः ।
ततोऽम्बरस्थास्ते दिव्याः कलशाश्चैलकण्ठिनः ॥ ७३ ॥
सहकारसमायुक्ता ववर्षुर्जलदा इव ।
दिव्यकाञ्चनरत्नौघैर्दिव्यपुष्पसमन्वितैः ॥ ७४ ॥
गन्धचूर्णविमिश्रैश्च राजेन्द्रस्याभिषेचने ।
यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् ॥ ७५ ॥
दर्शयित्वा नरेन्द्राणां दिव्यैरावरणैः शुभैः ।
दिव्याम्बरविचित्रैश्च दिव्यमाल्यानुलेपनैः ॥ ७६ ॥
सत्कृत्य विधिवद्राज्ञ उपविष्टो जनार्दनः ।
शुभे देवसभे रम्ये स्नानहेतोरिहागते ॥ ७७ ॥
उपास्यमानो यदुभिर्विदर्भैश्च नराधिपैः ।
वैनतेयश्च बलवान् कामरूपी नराकृतिः ॥ ७८ ॥
दक्षिणं पार्श्वमाश्रित्य आसनस्थो महाबलः ।
क्रथश्च कैशिको वीरो वामपार्श्वे तथासने ॥ ७९ ॥
उपविष्टौ महात्मानौ देवस्यानुमते नृपौ ।
तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः ॥ ८० ॥
सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः ।
भास्करप्रतिमे दिव्ये दिव्यास्तरणविस्तृते ॥ ८१ ॥
सुखोपविष्टं श्रीमन्तं देवैरिव शचीपतिम् ।
सचिवैः श्राविताः सर्वे प्रविष्टास्ते नराधिपाः ॥ ८२ ॥
यथार्हेण च संपूज्य राजानः सर्व एव ते ।
सुखोपविष्टास्ते स्वेषु आसनेषु नराधिपाः ॥ ८३ ॥
कैशिकस्तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ॥ ८४ ॥
कैशिक उवाच
अविज्ञाता नृपाः सर्वे मानुषोऽयमिति प्रभा ।
भवन्तमुपरुद्धानां देव त्वं क्षन्तुमर्हसि ॥ ८५ ॥
श्रीकृष्ण उवाच
न मे वैरं प्रवसति एकाहमपि कैशिक ।
विशेषेण नरेन्द्राणां क्षत्रधर्मेऽवतिष्ठताम् ॥ ८६ ॥
योद्धव्यमिति धर्मेण अधर्मे तु पराङ्मुखे ।
तेषां किंहेतुना कोपः कर्तव्यस्त्ववनीश्वराः ॥ ८७ ॥
यद्गतं तदतिक्रान्तं ये मृतास्ते दिवं गताः ।
एष धर्मो नृलोकेऽस्मिञ्जायन्ते च म्रियन्ति च ॥ ८८ ॥
तस्मादशोच्यं भवतां मृतार्थे च नराधिपाः ।
क्षन्तव्यं रोचतेऽस्माकं वीतवैरा भवन्तु ते ॥ ८९ ॥
वैशम्पायन उवाच
एवमुक्त्वा नरेन्द्रांस्तानाश्वास्य मधुसूदनः ।
कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः ॥ ९० ॥
एतस्मिन्नेव काले तु भीष्मको नयकोविदः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ॥ ९१ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
रुक्मिणीस्वयंवरे पञ्चाशत्तमोऽध्यायः ॥
GO TOP
|