![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ द्वाविंशोऽध्यायः ॥ श्रीपराशर उवाच
अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ १ ॥ श्रीपराशरजी बोले-अब मैं भविष्यमें होनेवाले इक्ष्वाकुवंशीय राजाओंका वर्णन करता हूँ ॥ १ ॥ बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ २ ॥
तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवाकरः ॥ ३ ॥ तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथः तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तस्मात्किन्नरः ॥ ४ ॥ किन्नरादन्तरिक्षः तस्मात्सुपर्णः ततश्चामित्रजित् ॥ ५ ॥ ततश्च बृहद्राजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ६ ॥ कृतञ्जयाद्रणञ्जयः ॥ ७ ॥ रणञ्जयात्संजयः तस्माच्छाक्यः शाक्याच्छुद्धोदनस्तस्माद् राहुलस्ततः प्रसेनजित् ॥ ८ ॥ ततश्च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः ॥ ९ ॥ तत्पुत्रश्च सुमित्रः ॥ १० ॥ इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ ११ ॥ बृहद्वलका पुत्र बृहत्क्षण होगा, उसका उरुक्षय, उरुक्षयका वत्सव्यूह, वत्सव्यूहका प्रतिव्योम, प्रतिव्योमका दिवाकर, दिवाकरका सहदेव, सहदेवका बृहदश्व, बृहदश्वका भानुरथ, भानुरथका प्रतीताश्व, प्रतीताश्वका सुप्रतीक, सुप्रतीकका मरुदेव, मरुदेवका सुनक्षत्र, सुनक्षत्रका किन्नर, किन्नरका अन्तरिक्ष, अन्तरिक्षका सुपर्ण, सुपर्णका अमित्रजित्, अमित्रजित्का बृहदाज, बृहदाजका धर्मी, धर्मीका कृतंजय, कृतंजयका रणंजय, रणंजयका संजय, संजयका शाक्य, शाक्यका शुद्धोदन, शुद्धोदनका राहुल, राहुलका प्रसेनजित्, प्रसेनजित्का क्षुद्रक, क्षुद्रकका कुण्डक, कुण्डकका सुरथ और सुरथका सुमित्र नामक पुत्र होगा । ये सब इक्ष्वाकुके वंशमें बृहदलकी सन्तान होंगे ॥ २-११ ॥ अत्रानुवंशश्लोकः ॥ १२ ॥
इस वंशके सम्बन्धमें यह श्लोक प्रसिद्ध है- ॥ १२ ॥ इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १३ ॥ 'यह इक्ष्वाकुवंश राजा सुमित्रतक रहेगा, क्योंकि कलियुगमें राजा सुमित्रके होनेपर फिर यह समाप्त हो जायगा' ॥ १३ ॥ इति श्रीमहाविष्णुपुराणे चुतुर्थांशे द्वाविंशोऽध्यायः (२२)
इति श्रीविष्णुपुराणे चतुर्थेऽशे द्वाविंशोऽध्यायः ॥ २२ ॥ |