![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ त्रयोविंशोऽध्यायः ॥ श्रीपराशर उवाच
मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ १ ॥ श्रीपराशरजी बोले- अब मैं मगधदेशीय बृहद्रथकी भावी सन्तानका अनुक्रमसे वर्णन करूँगा ॥ १ ॥ अत्र हि वंशे महाबलपराक्रमा जरांसन्धप्रधाना बभूवुः ॥ २ ॥
इस वंशमें महाबलवान् और पराक्रमी जरासन्ध आदि राजागण प्रधान थे ॥ २ ॥ जरासन्धस्य पुत्रः सहदेवः ॥ ३ ॥
जरासन्धका पुत्र सहदेव है ॥ ३ ॥ सहदेवात्सोमापिस्तस्य श्रुतश्रवास्तस्याप्ययुतायुस्ततश्च निरमित्रस्तत्तनयः सुनेत्रस्तस्मादपि बृहत्कर्मा ॥ ४ ॥
ततश्च सेनजित्ततश्च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रः शुचिनामा भविष्यति ॥ ५ ॥ सहदेवके सोमापि नामक पुत्र होगा, सोमापिके श्रुतश्रवा, श्रुतश्रवाके अयुतायु, अयुतायुके निरमित्र, निरमित्रके सुनेत्र, सुनेत्रके बृहत्कर्मा, बृहत्कर्माके सेनजित्, सेनजित्के श्रुतंजय, श्रुर्तजयके विप्र तथा विपके शुचि नामक एक पुत्र होगा ॥ ४-५ ॥ तस्यापि क्षेम्यस्ततश्च सुव्रतः सुव्रताद्धर्मस्ततःसुश्रवा ॥ ६ ॥
ततो दृढसेनः ॥ ७ ॥ तस्मात्सुबलः ॥ ८ ॥ सुबलात्सुनीतो भविता ॥ ९ ॥ ततःसत्यजित् ॥ १० ॥ तस्माद्विश्वजित् ॥ ११ ॥ तस्यापि रिपुञ्जयः ॥ १२ ॥ शुचिके क्षेम्य, क्षेम्बके सुव्रत, सुव्रतके धर्म, धर्मके सुश्रवा, सुश्रवाके ढसेन, दृढसेनके सुबल, सुबलके सुनीत, सुनीतके सत्यजित्, सत्यजितके विश्वजित् और विश्वजितके रिपुंजयका जन्म होगा ॥ ६-१२ ॥ इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ॥ १३ ॥
इस प्रकारसे बृहद्रथवंशीय राजागण एक सहस्र वर्षपर्यन्त मगधमें शासन करेंगे ॥ १३ ॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोविंशोऽध्यायः (२३)
इति श्रीविष्णुपुराणे चतुर्थेऽशे त्रयोविंशोऽध्यायः ॥ २३ ॥ |