Menus in CSS Css3Menu.com


ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - चतुर्थोऽध्यायः


पुण्यकव्रतविधानम् -
पुण्यक नामक व्रत का विधान -


महादेव उवाच
शृणु पार्वति वक्ष्यामि तव भद्रं भविष्यति ।
उपायतः कार्यसिद्धिर्भवत्येव जगत्‌त्रये ॥ १ ॥
श्री महादेव जी बोले- हे पार्वती ! सुनो ! मैं कह रहा हूँ, उससे तुम्हारा कल्याण होगा । तीनों लोकों में उपाय द्वाराही कार्य-सिद्धि होती है ॥ १ ॥

सर्ववाञ्छितसिद्धेस्तु बीजरूपं सुमङ्‌गलम् ।
मनसः प्रीतिजननमुपाय कथयामि ते ॥ २ ॥
मैं तुम्हें उपाय बता रहा हूं, जो समस्त मनोरथ सिद्धि का बीज, अति मंगल और मन में प्रीति उत्पन्न करने वाला है ॥ २ ॥

हरेराराधनं कृत्वा व्रतं कुरु वरानने ।
व्रतं च पुण्यकं नाम वर्षमेकं करिष्यसि ॥ ३ ॥
महाकठोरबीजं च वाञ्छाकल्पतरुं परम् ।
सुखदं पुण्यदं सारं पुत्रदं सर्वसौख्यदम् ॥ ४ ॥
हे वरानने ! भगवान् की आराधना करके तुम एक वर्ष तक पुण्यक नामक व्रत सुसम्पन्न करो । वह महाकठोर बीज रूप, मनोरथ का श्रेष्ठ कल्पवृक्ष, सुखद, पुण्यप्रद, सारभाग, पुत्रदायक और समस्त सौख्य का प्रदाता है ॥ ३-४ ॥

नदीनां च यथा गङ्‌गा देवानां च हरिर्यथा ।
वैष्णवानां यथाऽहं च देवीनां त्वं यथा प्रिये ॥ ५ ॥
वर्णानां च यथा विप्रस्तीर्थानां पुष्करं यथा ।
पुष्पाणां पारिजातं च पत्राणां तुलसी यथा ॥ ६ ॥
यथा पुण्यप्रदानां च तिथिरेकादशी स्मृता ।
रविवारश्च वाराणां यथा पुण्यप्रदः शिवे ॥ ७ ॥
हे प्रिये ! जिस प्रकार नदियों में गंगा, देवों में विष्णु, वैष्णवों में मैं, देवियों में तुम, वर्गों में ब्राह्मण, तीर्थों में पुष्कर, पुष्पों में पारिजात, पत्रों में तुलसी, पूण्य देने वालों में एकादशी तिथि तथा वारों में रविवार पुण्यप्रद है ॥ ५-७ ॥

मासानां मार्गशीर्षश्चाप्यृतूनां माधवो यथा ।
संवत्सरो वत्सराणां युगानां च कृतं यथा ॥ ८ ॥
विद्याप्रदश्च पूज्यानां गुरूणां जननी यथा ।
साध्वी पत्‍नी यथाऽऽप्तानां विश्वस्तानां मनो यथा ॥ ९ ॥
यथा धनानां रत्‍नं च प्रियाणां च यथा पतिः ।
यथा पुत्रश्च बन्धूनां वृक्षाणां कल्पपादपः ॥ १ ० ॥
फलानां वै चूतफलं वर्षाणां भारतं यथा ।
वृन्दावनं वनानां च शतरूपा च योषिताम् ॥ ११ ॥
यथा काशी पुरीणां च सूर्यस्तेजस्विनां यथा ।
'यथाशशी खगानां च सुन्दराणां च मन्मथः ॥ १२ ॥
शास्त्राणां च यथा वेदाः सिद्धानां कपिलो यथा ।
हनूमान्वानराणां च क्षेत्राणां ब्राह्मणाननम् ॥ १३ ॥
यशोदानां यथा विद्या कविता च मनोहरा ।
आकाशो व्यापकानां च ह्यङ्‌गानां लोचनं यथा ॥ १४ ॥
विभवानां हरिकथा सुखानां हरिचिन्तनम् ।
स्पर्शानां पुत्रसंस्पर्शो हिंस्राणां च यथा खलः ॥ १५ ॥
पापानां च यथा मिथ्या पापिनां पुंश्चली यथा ।
पुण्यानां च यथा सत्यं तपसां हरिसेवनम् ॥ १६ ॥
यथा घृतं च गव्यानां यथा ब्रह्मा तपस्विनाम् ।
अमृतं भक्ष्यवस्तूनां सस्यानां धान्यकं यथा ॥ १७ ॥
पुण्यदानां यथा तोयं शुद्धानां च हुताशनः ।
सुवर्ण तैजसानां च मिष्टानां प्रियभाषणम् ॥ १८ ॥
गरुडः पक्षिणां चैव हस्तिनामिन्द्रवाहनम् ।
योगिनां च कुमारश्च देवर्षीणां च नारदः ॥ १ ९ ॥
गन्धर्वाणां चित्ररथो जीवो बुद्धिमतां यथा ।
सुकवीनां यथा शुक्रः काव्यानां च पुराणकम् ॥ २० ॥
स्त्रोतस्वतां समुद्रश्च यथा पृथ्वी क्षमावताम् ।
लाभानां च यथा मुक्तिर्हरिभक्तिश्च संपदाम् ॥ २१ ॥
पवित्राणां वैष्णवाश्च वर्णानां प्रणवो यथा ।
विष्णुमन्त्रश्च मन्त्राणां बीजानां प्रकृतिर्यथा ॥ २२ ॥
विदुषां च यथा वाणी गायत्री छन्दसां यथा ।
यथा कुबेरो यक्षाणां सर्पाणां वासुकिर्यथा ॥ २३ ॥
यथा पिता ते शैलानां गवां च सुरभिर्यथा ।
वेदानां सामवेदश्च तृणानां च यथा कुशः ॥ २४ ।
सुखदानां यथा लक्ष्मीर्मनो वै शीघ्रगामिनाम् ।
अक्षराणामकारश्च यथा तातो हितैषिणाम् ॥ २५ ॥
शालग्रामश्च मूर्तीनां पर्शूनां विष्णुपञ्जरः ।
चतुष्पदानां पञ्चास्यो मानवो जीविनां यथा ॥ २६ ॥
यथा स्वान्तं चेन्द्रियाणां मन्दाग्निश्च रुजां यथा ।
बलिनां च यथा शक्तिरहं शक्तिमतां यथा ॥ २७ ॥
महान्विराट् च स्थूलानां सूक्ष्माणां परमाणुकः ।
यथेन्द्र आदितेयानां दैत्यानां च बलिर्यथा ॥ २८ ॥
यथा दधीचिर्दातृणां प्रह्लादश्चैव साधुषु ।
ब्रह्मास्त्रं च यथाऽस्त्राणां चक्राणां च सुदर्शनम् ॥ २९ ॥
नृणां राजा रामचन्द्रो धन्विनां लक्ष्मणो यथा ।
सर्वाधारः सर्वसेव्यः सर्वबीजं च सर्वदः
सर्वसारो यथा कृष्णो व्रतानां पुण्यकं यथा ॥ ३० ॥
हे शिवे ! मासों में मार्गशीर्ष (अगहन), ऋतुओं में माधव (वसन्त) वत्सरों में संवत्सर, युगों में कृतयुग, पूज्यों में विद्यादाता, गुरुओं में माता, आप्त लोगों में पतिव्रता पत्नी, विश्वस्तों में मन, धनों में रत्न, प्रिय लोगों में पति, बन्धुओं में पुत्र, वृक्षों में कल्पवृक्ष, फलों में आम, वर्षों में भारतवर्ष, वनों में वृन्दावन, स्त्रियों में शतरूपा, पुरियों में काशी, तेजस्वियों में सूर्य, आकाशचारियों में चन्द्रमा, सुन्दरों में कामदेव, शास्त्रों में वेद, सिद्धों में कपिल, वानरों में हनूमान, क्षेत्रों में ब्राह्मणमुख, यशदायकों में विद्या और मनोहर कविता, व्यापकों में आकाश, अंगों में नेत्र, ऐश्वर्यों में भगवान् की कथा, सुखों में भगवान् का चिन्तन करना, स्पर्शों में पुत्र-स्पर्श, हिंसकों में खल (दुष्ट), पापों में मिथ्या, पापियों में पुंश्चली, पुण्यों में सत्य, तपों में हरि-सेवा, गव्यों में घी, तपस्वियों में ब्रह्मा, भक्ष्य वस्तुओं में अमृत, सस्यों में धान्य, पुण्य देनेवालों में जल, शुद्धों में अग्नि, तैजस पदार्थों में सुवर्ण, मीठी वस्तुओं में प्रिय भाषण, पक्षियों में गरुड, हाथियों में ऐरावत, योगियों में कुमार, देवर्षियों में नारद, गन्धों में चित्ररथ, बुद्धिमानों में जीव (बृहस्पति), उत्तम कवियों में शुक्र, काव्यों में पुराण, स्रोतों में समुद्र, क्षमाशीलों में पृथिवी, लाभों में मुक्ति, सम्पदाओं में हरिभक्ति, पवित्रों में वैष्णव, वर्णों (अक्षरों) में ओंकार, मन्त्रों में विष्णुमन्त्र, बीजों में प्रकृति, विद्वानों में सरस्वती, छन्दों में गायत्री, यक्षों में कुबेर, सपों में वासुकि नाग, पर्वतों में तुम्हारे पिता हिमवान् गौओं में सुरभि, वेदों में सामवेद, तृणों में कुश, सुख देनेवालों में लक्ष्मी, शीघ्रगामियों में मन, अक्षरों में अकार, हितैषियों में पिता, मूर्तियों में शालग्राम, आयुधों में सुदर्शन चक्र, चार पैर वालों में सिंह, जीवों में मानव, इन्द्रियों में अन्तःकरण, रोगों में मन्दाग्नि, बलवानों में शक्ति, शक्तिमानों में मैं, स्थूलों में महाविराट्, सूक्ष्मों में परमाणु, अदिति-पुत्रों (देवों) में इन्द्र, दैत्यों में बलि, दाताओं में दधीचि, साघुओं में प्रह्लाद, अस्त्रों में ब्रह्मास्त्र, चक्रों में सुदर्शन, मनुष्यों में राजा रामचन्द्र, धनुर्धारियों में लक्ष्मण और समस्त के आधार, सब के सेव्य, सब के बीज, सब कुछ देनेवाले और सपके निचोड़ श्रीकृष्ण, (जैसे सर्वश्रेष्ठ) हैं उसी भांति व्रतों में पुण्यक व्रत है ॥ ८-३० ॥

व्रतं कुरु महाभागे त्रिषु लोकेषु दुर्लभम् ।
सर्वश्रेष्ठश्च पुत्रस्ते व्रतादेव भविष्यति ॥ ३१ ॥
हे महाभागे ! इस व्रत को सुसम्पन्न करो, जो तीनों लोकों में दुर्लभ है । इस व्रत के प्रभाव से तुम्हें श्रेष्ठपुत्र की प्राप्ति होगी ॥ ३१ ॥

व्रताराध्यश्व वै कृष्णः सर्वेषां वाञ्छितप्रदः ।
जनो यत्सेवनान्मुक्तः पितृभिः कोटिभिः सह ॥ ३२ ॥
इस प्रत में आराध्य देव भगवान् श्रीकृष्ण हैं जो सभी को मनोरथ प्रदान करते हैं और जिनकी सेवा करके मनुष्य अपनी करोड़ों पीढ़ियों समेत मुक्त हो जाता है ॥ ३२ ॥

हरिमात्रं गृहीत्वा च हरिसेवां करोति यः ।
भारते जन्म सफलं स्वात्मनः स करोति च ॥ ३३ ॥
भारत देश में जो भगवान् का मंत्र ग्रहण कर उनकी सेवा करता है, वह अपना जन्म सफल करता है ॥ ३३ ॥

उद्धृत्य कोटिपुरुषान्वैकुण्ठं याति निश्चितम् ।
श्रीकृष्णपार्षदो भूत्वा सुखं तत्रैव मोदते ॥ ३४ ॥
और अपनी करोड़ों पीड़ियों का उद्धार करके निश्चित रूप से वैकुण्ठ जाता है, वहाँ भगवान् श्रीकृष्ण का पार्षद होकर आनन्द जीवन मातीत करता है ॥ ३४ ॥

सहोदरान्स्वभृत्यांश्च स्वबन्धून्सहचारिणः ।
स्वस्त्रियश्च समुद्धृत्य भक्तो याति हरेः पदम् ॥ ३५ ॥
सहोदरों (सगे भाइयों), अपने सेवक-वर्ग, बन्धुवर्ग, सहचारोगण एवं अपनी स्त्रियों का उद्धार करके भक्त भगवान् के लोक में चला जाता है ॥ ३५ ॥

तस्माद्‌गृहाण गिरजे हरेर्मन्त्रं सुदुर्लभम् ।
जप मन्त्रं व्रते तत्र पित्तॄणां मुक्तिकारणम् ॥ ३६ ॥
इत्युक्त्वा शंकरो देवो गत्वा गिरिजया सह ।
शीघ्रं च जाह्नवीतीरं हरेर्मन्त्रं मनोहरम् ॥ ३७ ॥
तस्यै ददौ च संप्रीत्या कवचं स्तोत्रसंयुतम् ।
पूजाविधाननियमं कथयामास तां मुने ॥ ३८ ॥
हे गिरिजे ! इसलिए भगवान् का अति दुर्लभ मन्त्र ग्रहण कर उस व्रत में इसका जप करो, जो पितरों को मुक्त करता है । इतना कह शंकर जी ने गिरिजा के साथ शीघ्र गंगा-तट पर जाकर उन्हें भगवान् का मनोहर मंत्र प्रदान किया, और हे मुने ! सप्रेम कवच, स्तोत्र एवं पूजाविधान का नियम भी बताया ॥ ३६-३८ ॥

इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे तृतीयोऽध्यायः ॥ ३ ॥
श्रीब्रह्मवैवर्तमहापुराण के तीसरे गणपति-खण्ड में नारद-नारायण-संवाद में तीसरा अध्याय समाप्त ॥ ३ ॥

GO TOP