[ Right click to 'save adio as' for downloading Audio ]
गायत्रिशक्त्यादि प्रतिपादनम् -
गायत्रीके चौबीस वर्णोंकी शक्तियों, रंगों एवं मुद्राओंका वर्णन -
श्रीनारायण उवाच वर्णानां शक्तयः काश्च ताः शृणुष्व महामुने । वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी ॥ १ ॥ प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती । विद्रुमा च विशालेशा व्यापिनी विमला तथा ॥ २ ॥ तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा । पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता ॥ ३ ॥
श्रीनारायण बोले-हे महामुने ! उन वर्णोकी कौन-कौन-सी शक्तियाँ हैं, अब आप उन्हें सुनिये । वामदेवी, प्रिया, सत्या, विश्वा, भद्रविलासिनी, प्रभावती, जया, शान्ता, कान्ता, दुर्गा, सरस्वती, विद्रुमा, विशालेशा, व्यापिनी, विमला, तमोपहारिणी, सूक्ष्मा, विश्वयोनि, जया, वशा, पद्यालया, पराशोभा, भद्रा तथा त्रिपदा-चौबीस गायत्रीवर्गों की ये शक्तियाँ कही गयी हैं ॥ १-३ ॥
चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः । अतः परं वर्णवर्णान्व्याहरामि यथातथम् ॥ ४ ॥ चम्पका अतसीपुष्पसन्निभं विद्रुमं तथा । स्फटिकाकारकं चैव पद्यपुष्पसमप्रभम् ॥ ५ ॥ तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् । प्रवालपद्यपत्राभं पद्मरागसमप्रभम् ॥ ६ ॥ इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् । अञ्जनाभं च रक्तं च वैदूर्यं क्षौद्रसन्निभम् ॥ ७ ॥ हारिद्रं कुन्ददुग्धाभं रविकान्तिसमप्रभम् । शुकपुच्छनिभं तद्वच्छतपत्रनिभं तथा ॥ ८ ॥ केतकीपुष्पसंकाशं मल्लिकाकुसुमप्रभम् । करवीरश्च इत्येते क्रमेण परिकीर्तिताः ॥ ९ ॥
हे मुने !] अब मैं उन अक्षरोंके वास्तविक वर्णों (रंगों) के विषयमें बता रहा हूँ । गायत्रीके चौबीस वर्णोके रंग क्रमशः चम्पा, अलसी-पुष्म, मूंगा, स्फटिक, कमल-पुष्प, तरुण सूर्य, शंख-कुन्दचन्द्रमा, रक्त कमलपत्र, पद्मराग, इन्द्रनीलमणि, मोती, कुमकुम, अंजन, रक्तचन्दन, वैदूर्य, मधु, हरिद्रा, कुन्द एवं दुग्ध, सूर्यकान्तमणि, तोतेकी पूँछ, कमल, केतकीपुष्प, मल्लिकापुष्प और कनेरके पुष्पकी आभाके समान कहे गये हैं । चौबीस अक्षरोंके बताये गये ये चौबीस वर्ण महान् पापोंको नष्ट करनेवाले हैं ॥ ४-९ ॥
वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः । पृथिव्यापस्तथा तेजो वायुराकाश एव च ॥ १० ॥ गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च । उपस्थं पायुपादं च पाणी वागपि च क्रमात् ॥ ११ ॥ प्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं च ततः परम् । प्राणोऽपानस्तथा व्यानः समानश्च ततः परम् ॥ १२ ॥
तत्त्वान्येतानि वर्णानां क्रमशः कीर्तितानि तु । अतः परं प्रवक्ष्यामि वर्णमुद्राः कमेण तु ॥ १३ ॥ सुमुखं सम्पुटं चैव विततं विस्मृतं तथा । द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥ १४ ॥ षण्मुखाधोमुखं चैव व्यापकाज्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ १५ ॥ विलम्बं मुष्टिकं चैव मह्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ १६ ॥ त्रिशूलयोनी सुरभिश्चाक्षमाला च लिङ्गकम् । अम्बुजं च महामुद्रास्तुर्यरूपाः प्रकीर्तिताः ॥ १७ ॥ इत्येताः कीर्तिता मुद्रा वर्णानां ते महामुने । महापापक्षयकराः कीर्तिदाः कान्तिदा मुने ॥ १८ ॥
[हे नारद !] अब मैं क्रमशः वर्णोकी मुद्राओंका वर्णन करूँगा । सुमुख, सम्पुट, वितत, विस्तृत, द्विमुख, त्रिमुख, चतुर्मुख, पंचमुख, षण्मुख, अधोमुख, व्यापकांजलि, शकट, यमपाश, ग्रथित, सन्मुखोन्मुख, विलम्ब, मुष्टिक, मत्स्य, कूर्म, वराह, सिंहाक्रान्त, महाक्रान्त, मुद्गर तथा पल्लव-गायत्रीके अक्षरोंकी ये चौबीस मुद्राएँ हैं । त्रिशूल, योनि, सुरभि, अक्षमाला, लिंग और अम्बुज-ये महामुद्राएँ गायत्रीके चौथे चरणकी कही गयी हैं । हे महामुने ! गायत्रीके वर्गों की इन मुद्राओंको मैंने आपको बता दिया । हे मुने ! ये मुद्राएँ महान् पापोंका नाश करनेवाली, कीर्ति देनेवाली तथा कान्ति प्रदान करनेवाली हैं ॥ १३-१८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादस्कन्धे गायत्रिशक्त्यादिप्रतिपादनं नाम द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमद्देवीभागवत महापुराणेऽष्टादशसाहस्त्रयां संहितायां द्वादशस्कन्धे गायत्रीशक्त्यादिप्रतिपादनं नाम द्वितीयोऽध्यायः ॥ २ ॥