![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
चतुस्त्रिंशोऽध्यायः सर्वमन्वतरानुर्कार्तनम्
चतुर्दश मन्वन्तरोंका वर्णन शौनक उवाच - मन्वन्तराणि सर्वाणि विस्तरेणानुकीर्तय । यावन्तो मनवश्चैव श्रोतुमिच्छामि तानहम् ॥ १ ॥ शौनक बोले-हे सूत ! आप सभी मन्वन्तरोंका विस्तारपूर्वक वर्णन कीजिये, अबतक जितने भी मनु हुए हैं, उनका वर्णन मैं सुनना चाहता हूँ ॥ १ ॥ सूत उवाच - स्वायंभुवो मनुश्चैव ततः स्त्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २ ॥ एते च मनवः षट् ते संप्रोक्ता मुनिपुङ्गव । वैवस्वतो मुनिश्रेष्ठ सांप्रतं मनुरुच्यते ॥ ३ ॥ सूतजी बोले-स्वायम्भुव, स्वारोचिष, उत्तम, तामस, रैवत, चाक्षुष-इन छ: मनुऑको मैंने आपसे कह दिया है । हे मुनिश्रेष्ठ ! अब वैवस्वत मनुका वर्णन कर रहा हूँ ॥ २-३ ॥ सावर्णिश्च मनुश्चैव ततो रौच्यस्तथा परः । तथैव ब्रह्मसावर्णिश्चत्वारो मनवस्तथा ॥ ४ ॥ तथैव धर्मसावर्णी रुद्रसावर्णिरेव च । देवसावर्णिराख्यात इंद्रसावर्णिरेव च ॥ ५ ॥ उसके बाद क्रमशः सावर्णि, रौच्य, ब्रह्मसावर्णि, धर्मसावर्णि, रुद्रसावर्णि, देवसावर्णि और इन्द्रसावर्णिये मनु होनेवाले हैं ॥ ४-५ ॥ अतीता वर्तमानाश्च तथैवानागताश्च ये । कीर्तिता मनवश्चापि मयैवैते यथा श्रुताः ॥ ६ ॥ इस प्रकार मैंने बीते हुए छः मनुओं, वर्तमान सातवें वैवस्वत मनु तथा आगे आनेवाले सात मनुओं-कुल चौदह मनुओंको कहा, जैसा कि मैंने सुना है ॥ ६ ॥ मुने चतुर्दशैतानि त्रिकालानुगतानि ते । प्रोक्तानि निर्मितः कल्पो युगसाहस्रपर्ययः ॥ ७ ॥ ऋषींस्तेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा । शृणु शौनक सुप्रीत्या क्रमशस्तान्यशस्विनः ॥ ८ ॥ हे मुने ! तीनों कालोंमें होनेवाले इन चौदह मन्वन्तरों तथा सहस्रयुगात्मक कल्पका वर्णन किया गया, अब उनके ऋषियों, मनुपुत्रों एवं देवताओंको कह रहा हूँ । हे शौनक ! प्रेमपूर्वक आप उन यशस्वियोंका श्रवण कीजिये ॥ ७-८ ॥ मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ९ ॥ उत्तरस्यां दिशि तथा मुने सप्तर्षयस्तथा । यामा नाम तथा देवा आसन्स्वायंभुवेन्तरे ॥ १० ॥ स्वायम्भुव मन्वन्तरमें मरीचि, अत्रि, भगवान् अंगिरा, पुलह, क्रतु, पुलस्त्य, वसिष्ठ-ये सात ब्रह्मपुत्र कहे गये हैं । हे मुने ! उत्तर दिशामें स्थित [महर्षिगण उस समयके] सप्तर्षि और उस मन्वन्तरमें याम नामक देवता हुए ॥ ९-१० ॥ आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः । ज्योतिष्मान्धृतिमान्हव्यः सवनः शुभ्र एव च ॥ ११ ॥ स्वायंभुवस्य पुत्रास्ते मनोर्दश महात्मनः । कीर्तिता मुनिशार्दूल तत्रेन्द्रो यज्ञ उच्यते ॥ १२ ॥ आग्नीध्र, अग्निबाहु, मेधा, मेधातिथि, वसु, ज्योतिष्मान्, धृतिमान्, हव्य, सवन और शुभ्र-ये दस महात्मा स्वायम्भुव मनुके पुत्र कहे गये हैं । हे मुनिश्रेष्ठ ! उस समय यज्ञ नामक इन्द्र कहे गये ॥ ११-१२ ॥ प्रथमं कथितं तात दिव्यं मन्वतरं तथा । द्वितीयं ते प्रवक्ष्यामि तन्निबोध यथातथम् ॥ १३ ॥ हे तात ! इस प्रकार मैंने पहला स्वायम्भुव मन्वन्तर कहा, अब मैं दूसरा मन्वन्तर कह रहा हूँ, उसे भलीभांति सुनिये ॥ १३ ॥ ऊर्जस्तंभः परस्तंभ ऋषभो वसुमांस्तथा । ज्योतिष्मान् द्युतिमांश्चैव रोचिष्मान् सप्तमस्तथा ॥ १४ ॥ एते महर्षयो ज्ञेयास्तत्रेन्द्रो रोचनस्तथा । देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ॥ १५ ॥ (दूसरे मन्वन्तरमें) ऊर्जस्तम्भ, परस्तम्भ, ऋषभ, वसुमान्, ज्योतिष्मान्, द्युतिमान् तथा सातवें रोचिष्मान्इन्हें महर्षि [सप्तर्षि] समझना चाहिये, उस कालमें रोचन नामक इन्द्र हुए । स्वारोचिष मन्वन्तरमें 'तुषित' नामवाले देवता कहे गये हैं ॥ १४-१५ ॥ हरिघ्नः सुकृतिर्ज्योतिरयोमूर्तिरयस्मयः । प्रथितश्च मनस्युश्च नभः सूर्यस्तथैव च ॥ १६ ॥ स्वारोचिषस्य पुत्रास्ते मनोर्दशमहात्मनः । कीर्तिता मुनिशार्दूल महावीर्यपराक्रमाः ॥ १७ ॥ द्वितीयमेतत्कथितं मुने मन्वन्तरं मया । तृतीयं तव वक्ष्यामि तन्निबोध यथातथम् ॥ १८ ॥ हे मुनिश्रेष्ठ ! हरिघ्न, सुकृति, ज्योति, अयोमूर्ति, अयस्मय, प्रथित, मनस्यु, नभ और सूर्य-ये महात्मा स्वारोचिष मनुके महान् बल तथा पराक्रमवाले दस पुत्र कहे गये हैं । हे मुने ! मैंने दूसरा मन्वन्तर कहा-अब मैं तृतीय मन्वन्तरका वर्णन करता हूँ, उसे अच्छी तरह सुनें ॥ १६-१८ ॥ वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः । हिरण्यगर्भस्य सुता ऊर्जा नाम महौजसः ॥ १९ ॥ ऋषयोऽत्र समाख्याताः कीर्त्यमानान्निबोध मे । औत्तमेया ऋषिश्रेष्ठ दशपुत्रा मनोः स्मृताः ॥ २० ॥ जो कभी महान् ओजस्वी हिरण्यगर्भके ऊर्जा नामसे प्रसिद्ध पुत्र थे, वे ही वसिष्ठके सात पुत्र हुए, जो वासिष्ठ नामसे प्रसिद्ध हैं । हे ऋषिश्रेष्ठ ! वे इस तृतीय मन्वन्तरके ऋषि कहे गये हैं, उत्तम नामक तीसरे मनुके भी दस पुत्र हुए, उनका कथन कर रहा हूँ, उसे समझो ॥ १९-२० ॥ इष ऊर्जित ऊर्जश्च मधुर्माधव एव च । शुचिः शुक्रवहश्चैव नभसो नभ एव च ॥ २१ ॥ ऋषभस्तत्र देवाश्च सत्यवेदश्रुतादयः । तत्रेन्द्रः सत्यजिन्नाम त्रैलोक्याधिपतिर्मुने ॥ २२ ॥ तृतीयमेतत्परमं मन्वतरमुदाहृतम् । मन्वतरं चतुर्थं ते कथयामि मुने शृणु ॥ २३ ॥ इष, ऊर्जित, ऊर्ज, मधु, माधव, शुचि, शुक्रवह, नभस, नभ और ऋषभ-ये नाम हैं । उस समय सत्यवेद, श्रुत आदि देवता हुए । हे मुने ! उस कालमें सत्यजित् नामक इन्द्र हुए थे, जो तीनों लोकोंके अधिपति थे । हे मुने ! इस श्रेष्ठ तृतीय मन्वन्तरका वर्णन किया । अब चतुर्थ मन्वन्तरको कह रहा हूँ, आप उसे सुनें ॥ २१-२३ ॥ गार्ग्यः पृथुस्तथा वाग्मी जयो धाता कपीनकः । कपीवान् सप्त ऋषयः सत्या देवगणास्तथा ॥ २४ ॥ तत्रेंद्रस्त्रिशिखो ज्ञेयो मनुपुत्रान् मुने शृणु । द्यूतिपोतः सौतपस्यस्तपः शूलश्च तापनः ॥ २५ ॥ तपोरतिरकल्माषो धन्वी खड्गी महानृषिः । तामसस्य स्मृता एते दश पुत्रा महाव्रताः ॥ २६ ॥ गार्य, पृथु, वाग्मी, जय, धाता, कपीनक, कपीवान्-ये सप्तर्षि हुए । उस समय सत्य नामके देवता हुए और त्रिशिख नामक इन्द्र हुए, ऐसा जानना चाहिये । हे मुने ! अब मनुके पुत्रोंको सुनिये-द्युतिपोत, सौतपस्य, तप, शूल, तापन, तपोरति, अकल्माष, धन्वी, खड्गी और महानृषि-ये तामस मनुके महाव्रती दस पुत्र कहे गये हैं ॥ २४-२६ ॥ तामसस्यान्तरं चैव मनोर्मे कथितं तव । चतुर्थं पञ्चमं तात शृणु मन्वन्तरं परम् ॥ २७ ॥ इस प्रकार मैंने चौथे तामस मन्वन्तरका वर्णन आपसे कर दिया । हे तात ! अब पंचम मन्वन्तरका श्रवण कीजिये ॥ २७ ॥ देवबाहुर्जयश्चैव मुनिर्वेदशिरास्तथा । हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमपाः ॥ २८ ॥ सत्यनेत्ररताश्चान्ये एते सप्तर्षयोऽपरे । देवाश्च भूतरजसस्तपःप्रकृतयस्तथा ॥ २९ ॥ तत्रेंद्रो विभुनामा च त्रैलोक्याधिपतिस्तथा । रैवताख्यो मनुस्तत्र ज्ञेयस्तामससोदरः ॥ ३० ॥ देवबाहु, जय, वेदशिरा मुनि हिरण्यरोमा पर्जन्य, सोमपायी ऊर्ध्वबाहु तथा सत्यनेत्ररत-ये सप्तर्षि हुए । उस समय तपस्वी स्वभाववाले भूतरज नामक देवता हुए और विभु नामक त्रिलोकाधिपति इन्द्र हुए, उस समय तामसके सहोदर भाई रैवत नामक [पंचम] मनुको जानना चाहिये ॥ २८-३० ॥ अर्जुनः पङ्क्तिविन्ध्यो वा दयायास्तनया मुने । महता तपसा युक्ता मेरुपृष्ठे वसन्ति हि ॥ ३१ ॥ हे मुने ! अर्जुन अथवा पंक्तिविन्ध्य (दक्षकन्या प्रिया) दया आदिके पुत्र हुए, जो महान् तपस्यासे युक्त होकर मेरुपृष्ठपर अब भी निवास करते हैं ॥ ३१ ॥ रुचेः प्रजापतिः पुत्रो रौच्यो नाम मनुः स्मृतः । भूत्या चोत्पादितो देव्यां भौत्यो नामाभवत्सुतः ॥ ३२ ॥ अनागताश्च सप्तैते कल्पेऽस्मिन् मनवः स्मृताः । अनागताश्च सप्तैव स्मृता दिवि महर्षयः ॥ ३३ ॥ रुचिके पुत्र प्रजापति रोच्य भी मनु कहे गये हैं, जिन्होंने भूति नामक स्त्रीसे भौत्य नामक पुत्र उत्पन्न किया । इस कल्पमें ये सात अनागत मनु कहे गये हैं और सात अनागत महर्षि कहे गये हैं, जो स्वर्गलोकमें निवास करते हैं ॥ ३२-३३ ॥ कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः । जमदग्निर्भरद्वाजः स्प्तैते ऋषयः स्मृताः ॥ ३४ ॥ रामो व्यासस्तथात्रेयो दीप्तिमान्सुबहुश्रुतः । भरद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥ ३५ ॥ गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः । कौशिको गालवश्चैव रुरुः कश्यप एव च ॥ ३६ ॥ एते सप्त महात्मानो भविष्या मुनिसत्तमाः । देवाश्चानागतास्तत्र त्रयः प्रोक्ताः स्वयंभुवा ॥ ३७ ॥ मरीचेश्चैव पुत्रास्ते कश्यपस्य महात्मनः । तेषां विरोचनसुतो बलिरिंद्रो भविष्यति ॥ ३८ ॥ कश्यप, अत्रि, वसिष्ठ, विश्वामित्र, गौतम, जमदग्नि और भरद्वाज-ये सात ऋषि कहे गये हैं । [परशु] राम, व्यास, अत्रिगोत्रीय बहुश्रुत दीप्तिमान्, भरद्वाजगोत्रीय महातेजस्वी द्रोणपुत्र अश्वत्थामा, गौतमपुत्र शरद्वान् [के पुत्र] कृपाचार्य, कुशिकवंशी गालव तथा । कश्यपवंशी रुरु–ये सात महात्मा आगे सप्तर्षि होनेवाले हैं । उसमें स्वयम्भू [ब्रह्मा]-ने तीनको ही अनागत देवता कहा है । [उस समय] वे देवता मरीचिपुत्र महात्मा कश्यपके पुत्र होंगे और उस समय विरोचनके पुत्र बलि इन्द्र होंगे ॥ ३४-३८ ॥ विषांङ्गश्चावनीवांश्च सुमन्तो धृतिमान्वसुः । सूरिः सुराख्यो विष्णुश्च राजा सुमतिरेव च ॥ ३९ ॥ सावर्णेश्च मनोः पुत्रा भविष्या दश शौनक । इहाष्टमं हि कथितं नवमं चान्तरं शृणु ॥ ४० ॥ हे शौनक ! विांग, अवनीवान्, सुमन्त, धृतिमान्, वसु, सूरि, सुरा, विष्णु, राजा, सुमति-ये दस सावर्णि मनुके पुत्र होंगे । इस प्रकार आठवाँ मन्वन्तर कहा गया, अब नौवें मन्वन्तरका श्रवण कीजिये ॥ ३९-४० ॥ प्रथमं दक्षसावर्णिं प्रवक्ष्यामि मनुं शृणु । मेधातिथिश्च पौलस्त्यो वसुः कश्यप एव च ॥ ४१ ॥ ज्योतिष्मान्भार्गवश्चैव धृतिमानङ्गिरास्तथा । सवनश्चैव वासिष्ठ आत्रेयो हव्य एव च ॥ ४२ ॥ पुलहः सप्त इत्येते ऋषयो रौहितेऽन्तरे । देवतानां गणास्तत्र त्रय एव महामुने ॥ ४३ ॥ दीक्षापुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । धृष्टकेतुर्दीप्तकेतुः पञ्चहस्तो निराकृतिः ॥ ४४ ॥ पृथुश्रवा भूरिद्युम्नो ऋचीको बृहतो गयः । प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः ॥ ४५ ॥ मैं पहले दक्षसावर्णि मनुको कह रहा हूँ, उसे आप सुनिये । पुलस्त्यवंशी मेधातिथि, कश्यपवंशी वसु, भृगुवंशी ज्योतिष्मान्, धैर्यवान् अंगिरा, वसिष्ठवंशी सवन, अत्रिवंशी हव्य और पुलह-ये सात ऋषि रोहित मन्वन्तरमें होंगे । हे महामुने ! इस मन्वन्तरमें देवताओंके ये तीन गण होंगे ॥ वे दक्षपुत्र प्रजापति रोहितके पुत्र होंगे । धृष्टकेतु, दीप्तकेतु, पंचहस्त, निराकृति, पृथुश्रवा, भूरिद्युम्न, ऋचीक, बृहत, गय-ये प्रथम दक्षसावर्णिके नौ महातेजस्वी पुत्र होंगे ॥ ४१-४५ ॥ दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः । हविष्मान्पुलहश्चैव प्रकृतिश्चैव भार्गवः ॥ ४६ ॥ आयो मुक्तिस्तथात्रेयो वसिष्ठश्चाव्ययः स्मृतः । पौलस्त्यः प्रयतिश्चैव भामारश्चैव कश्यपः ॥ ४७ ॥ अङ्गिरानेनसः सत्यः सप्तैते परमर्षयः । देवतानां गणाश्चापि द्विषिमन्तश्च ते स्मृताः ॥ ४८ ॥ तेषामिन्द्रः स्मृतः शम्भुस्त्वयमेव महेश्वरः । अक्षत्वानुत्तमौजाश्च भूरिषेणश्च वीर्यवान् ॥ ४९ ॥ शतानीको निरामित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्चार्चिर्दश त्वेते मनोः सुताः ॥ ५० ॥ दसवें और दूसरे [सावर्णि] मनुका जब मन्वन्तर होगा, तब पुलहवंशी हविष्मान्, भगवंशी प्रकृति, अत्रिवंशी आपोमुक्ति, वसिष्ठवंशी अव्यय, पुलस्त्यवंशी प्रयति, कश्यपवंशी भामार, अंगिरावंशी अनेनाके पुत्र सत्य-ये सात परमर्षि होंगे । इस मन्वन्तरमें जो द्विषिमन्त नामवाले कहे गये हैं, वे देवता होंगे । उनमें ये महेश्वर शम्भु ही इन्द्र कहे गये हैं । अक्षत्वान्, उत्तमौजा, पराक्रमी भूरिषेण, शतानीक, निरामित्र, वृषसेन, जयद्रथ, भूरिद्युम्न, सुवर्चा और अर्चि-ये मनुके दस पुत्र होंगे ॥ ४६-५० ॥ एकादशे तु पर्याये तृतीयस्यान्तरे मनोः । तस्यापि सप्त ऋषयः कीर्त्यमानान्निबोध मे ॥ ५१ ॥ हविष्मान् कश्यपश्चापि वपुष्मांश्चैव वारुणः । आत्रेयोऽथ वसिष्ठश्च ह्यनयस्त्वङ्गिरास्तथा ॥ ५२ ॥ चारुधृष्यश्च पौलस्त्यो निःस्वरोऽग्निस्तु तैजसः । सप्तैते ऋषयः प्रोक्तास्त्रयो देवगणाः स्मृताः ॥ ५३ ॥ ब्रह्मणस्तु सुतास्ते हि त इमे वैधृताः स्मृताः । सर्वगश्च सुशर्म्मा च देवानीकस्तु क्षेमकः ॥ ५४ ॥ दृढेषुः खंडको दर्शः कुहुर्बाहुर्मनोः स्मृताः । सावर्णस्य तु पौत्रा वै तृतीयस्य नव स्मृताः ॥ ५५ ॥ जब तीसरे [सावर्णि] मन्वन्तरमें ग्यारहवें मनु होंगे, उस समय जो सात ऋषि होंगे, उन्हें मैं कह रहा हूँ, आप सुनें । कश्यपवंशी हविष्मान्, वरुणवंशी वपुष्मान्, अत्रिवंशी वसिष्ठ, अंगिरावंशी अनय, पुलस्त्यवंशी चारुधृष्य, निस्वर और तैजस अग्नि (अग्नितेजा)-ये सात ऋषि कहे गये हैं और तीन देवगण कहे गये हैं । वे ब्रह्माजीके पुत्र वैधृत नामवाले कहे गये हैं । सर्वग, सुशर्मा, देवानीक, क्षेमक, दृढेषु, खण्डक, दर्श, कुहु, बाहु-ये मनुके पुत्र कहे गये हैं । ये तीसरे सावर्णि मनुके नौ पुत्र कहे गये हैं ॥ ५१-५५ ॥ चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे । द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥ ५६ ॥ अङ्गिरास्तपसो मूर्तिस्तपस्वी कश्यपस्तथा । तपोधनश्च पौलस्त्यः पुलहश्च तपोरतिः ॥ ५७ ॥ भार्गवः सप्तमस्तेषां विज्ञेयः तपसो निधिः । पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणः सुताः ॥ ५८ ॥ ऋतधामा तदिन्द्रो हि त्रिलोकी राज्यकृत्सुखी । अब चतुर्थ सावर्णिके सप्तर्षियोंको मुझसे सुनें । उनमें वसिष्ठपुत्र द्युति, अत्रिगोत्री सुतपा, तपोमूर्ति अंगिरा, तपस्वी कश्यप, तपोधन पौलस्त्य, तपोरति पुलह और सातवें तपोनिधि भार्गव कहे गये हैं । [इस मन्वन्तरमें] ब्रह्माके पाँच मानसपुत्र देवगण कहे गये हैं । उस समय प्रजाओंको सुख देनेवाले तथा त्रिलोकीके अधिपति ऋतधामा इन्द्र होंगे ॥ ५६-५८ १/२ ॥ द्वादशे चैव पर्याये भाव्ये रौच्यान्तरे मुने ॥ ५९ ॥ अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यवांस्तु यः । पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सवः ॥ ६० ॥ निष्प्रपञ्चस्तथात्रेयो निर्देहः कश्यपस्तथा । सुतपाश्चैव वासिष्ठः सप्तैवैते महर्षयः ॥ ६१ ॥ त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा । दिवस्पतिस्तदिन्द्रो वै विचित्रश्चित्र एव च ॥ ६२ ॥ नयो धर्मो धृतोंध्रश्च सुनेत्रः क्षत्रवृद्धकः । निर्भयः सुतपा द्रोणो मनो रौच्यस्य ते सुताः ॥ ६३ ॥ हे मुने ! आगे आनेवाले बारहवें रौच्य नामक मन्वन्तरमें धृतिमान् अंगिरा, पुलस्त्यवंशी हव्यवान्, पुलहवंशी तत्वदर्शी, निरुत्सव भार्गव, प्रपंचरहित आत्रेय, निर्देह कश्यप और वसिष्ठवंशी सुतपा-ये सप्तर्षि होंगे । इसमें स्वयम्भू (ब्रह्माजी)-ने देवताओंके तीन गण कहे हैं । दिवस्पति उस मन्वन्तरमें इन्द्र होंगे । विचित्र, चित्र, नय, धर्म, धृतोन्ध्र, सुनेत्र, क्षत्रवृद्धक, निर्भय, सुतपा और द्रोण-ये रौच्य मनुके [दस] पुत्र होंगे ॥ ५९-६३ ॥ मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् । चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ ६४ ॥ देवाः सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पतिः । निर्मोकतत्त्वदर्शाद्या भविश्यन्त्यृषयस्तदा ॥ ६५ ॥ आत्मज्ञानी देवसावर्णि नामक तेरहवें मनु होंगे । चित्रसेन, विचित्र आदि उन देवसावर्णिके पुत्र होंगे । उस समय सुकर्म तथा सुत्राम नामवाले देवता होंगे, दिवस्पति नामक इन्द्र होंगे और निर्मोक, तत्वदर्शी आदि ऋषि होंगे ॥ ६४-६५ ॥ चतुर्दशे तु पर्याये सत्यस्यैवान्तरे मनोः । आग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥ ६६ ॥ भार्गवोऽप्यतिवाह्यश्च शुचिरङ्गिरसस्तथा । युक्तश्चैव तथात्रेयः पौत्रो वाशिष्ठ एव च ॥ ६७ ॥ अजितः पुलहश्चैव ह्यन्त्याः सप्तर्षयश्च ते । पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति ॥ ६८ ॥ चौदहवें भौत्य नामक मनुके कालमें कश्यपवंशी आग्नीध्र, पुलस्त्यवंशी मागध और भृगुवंशी अतिबाह्य, अंगिरागोत्रीय शुचि, अत्रिगोत्रीय युक्त, वसिष्ठगोत्रीय शुक तथा पुलहगोत्रीय अजित-ये अन्तिम मनुके सप्तर्षि होंगे । [इस मन्वन्तरमें] पवित्र चाक्षुष देवगण होंगे और शुचि नामक इन्द्र होंगे ॥ ६६-६८ ॥ एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते । अतीतानागतानां वै महर्षीणां नरैः सदा ॥ ६९ ॥ अतीत तथा अनागत-इन महर्षियोंका सर्वदा प्रातःकाल उठकर नाम-कीर्तन करनेसे मनुष्योंके सुखोंकी वृद्धि होती है ॥ ६९ ॥ देवतानां गणाः प्रोक्ताः शृणु पञ्च महामुने । तुरङ्गभीरुर्बुध्नश्च तनुग्रोऽनुग्र एव च ॥ ७० ॥ अतिमानी प्रवीणश्च विष्णुः सङ्क्रन्दनस्तथा । तेजस्वी सबलश्चैव सत्यस्त्वेते मनोः सुता ॥ ७१ ॥ हे महामुने ! सुनिये; इसमें देवताओंके पाँच गण कहे गये हैं और तुरंगभीरु, बुध्न, तनुग्र, अनुग्र, अतिमानी, प्रवीण, विष्णु, संक्रन्दन, तेजस्वी तथा सबल-ये दस भौत्यमनुके पुत्र होंगे ॥ ७०-७१ ॥ भौमस्यैवाधिकारे वै पूर्वकल्पस्तु पूर्यते । इत्येतेऽनागताऽतीता मनवः कीर्तिता मया ॥ ७२ ॥ उक्ताः सनत्कुमारेण व्यासायामिततेजसा । पूर्णे युगसहस्रान्ते परिपाल्यः स्वधर्मतः ॥ ७३ ॥ प्रजाभिस्तपसा युक्ता ब्रह्मलोकं व्रजन्ति ते । भौत्य मनुके अधिकारकालकी पूर्णताके साथ कल्प पूर्ण हो जाता है । इस प्रकार मैंने भूत, भविष्यके इन मनुऑका वर्णन किया, जिनके विषयमें महातेजस्वी सनत्कुमारने व्यासजीसे कहा था । वे मनु एक हजार युगपर्यन्त अपने धर्मके अनुसार प्रजाओंका पालनकर तपस्यासे युक्त हो प्रजाओंके साथ ब्रह्मलोकको जाते हैं ॥ ७२-७३ १/२ ॥ युगानि सप्रतिस्त्वेकं साग्राण्यन्तरमुच्यते ॥ ७४ ॥ चतुर्दशैते मनवः कीर्तिता कीर्तिवर्धनाः । मन्वन्तरेषु सर्वेषु संहारान्ते पुनर्भवः ॥ ७५ ॥ न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि । पूर्णे शतसहस्रे तु कल्पो निःशेष उच्यते ॥ ७६ ॥ इकहत्तर चतुर्युगीको एक मन्वन्तरका काल कहा जाता है । [हे महर्षे !] इस प्रकार मैंने कीर्तिको बढ़ानेवाले इन चौदह मनुओंका वर्णन कर दिया । सभी मन्वन्तरोंके पूर्ण हो जानेपर संहारके अन्तमें पुनः सृष्टि होती है । सैकड़ों वर्षोंमें भी उनके मन्वन्तरोंका वर्णन नहीं किया जा सकता है । सौ हजार चतुर्युगीके बीत जानेपर एक कल्पकी समाप्ति कही जाती है ॥ ७४-७६ ॥ तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः । ब्रह्माणमग्रतः कृत्वा सदादित्यगणैर्मुने ॥ ७७ ॥ प्रविशन्ति सुरश्रेष्ठ हरिं नारायणं परम् । स्रष्टारं सर्व भूतानां कल्पान्तेषु पुनः पुनः ॥ ७८ ॥ उस समय सूर्यको किरणोंसे सभी प्राणी भस्म हो जाते हैं । हे मुने ! वे समस्त प्राणी कल्पोंके अन्तमें ब्रहादेवको आगेकर आदित्यगणोंके साथ सभी प्राणियोंके स्रष्टा तथा देवताओंमें श्रेष्ठ श्रीहरि नारायणमें बार-बार प्रविष्ट होते रहते हैं ॥ ७७-७८ ॥ भूयोपि भगवान् रुद्रः संहर्ता काल एव हि । कल्पान्ते तत्प्रवक्ष्यामि मनोर्वैवस्वतस्य वै ॥ ७९ ॥ इति ते कथितं सर्वं मन्वन्तरसमुद्भवम् । विसर्गं पुण्यमाख्यानं धन्यं कुलविवर्द्धनम् ॥ ८० ॥ इस प्रकार प्रत्येक कल्पके अन्तमें कालस्वरूप भगवान् रुद्र पुनः संहार करते हैं, इसका वर्णन मैं वैवस्वत मनुके प्रसंगमें करूँगा । इस प्रकार मैंने मन्वन्तरोंकी उत्पत्ति तथा विसर्गसे सम्बन्धित सम्पूर्ण आख्यान आपसे कह दिया । जो पुण्यप्रद, धन्यताको देनेवाला तथा कुलकी वृद्धि करनेवाला है ॥ ७९-८० ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्वमन्वतरानुर्कार्तनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें सर्वमन्वन्तरानुकीर्तनवर्णन नामक चौंतीसवाँ अध्याय पूर्ण हुआ ॥ ३४ ॥ श्रीगौरीशंकरार्पणमस्तु |