![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
कैलाससंहिता
॥ पञ्चमोऽध्यायः ॥ संन्यासमण्डलविधिवर्णनम्
संन्यासदीक्षाहेतु मण्डलनिर्माणकी विधि ईश्वर उवाचः - परीक्ष्य विधिवदभूमिं गंधवर्णरसादिभिः । मनोभिलषिते तत्र वितानवितताम्बरे ॥ १ ॥ सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे । अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत् ॥ २ ॥ ईश्वर बोले-भूमिके गन्ध, वर्ण, रस आदिकी भलीभाँति परीक्षाकर वहाँ अपने मनके अनुकूल स्थानपर वस्त्रका विशाल चँदोवा लगाकर दर्पणतलके तुल्य [सम तथा स्निग्ध] पृथ्वीतलपर दो हाथ प्रमाणके चौकोर मण्डलका निर्माण करे ॥ १-२ ॥ तालपत्रं समादाय तत्समायामविस्तरम् । तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम् ॥ ३ ॥ तत्पत्रं तत्र निःक्षिप्य पश्चिमाभिमुखः स्थितः । तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम् ॥ ४ ॥ प्राक्प्रत्यग्दक्षिणोदक् च चतुर्दिशि निपातयेत् । सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम् ॥ ५ ॥ कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका । कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते ॥ ६ ॥ ताड़का पत्ता लेकर उसीके समान लम्बे एवं चौड़े स्थानमें बराबर तेरह भाग करे । उस ताड़पत्रको वहीं रखकर पश्चिमकी ओर मुख करके बैठे और रँगा हुआ सुदृढ़ धागा लेकर उसे पूर्व, पश्चिम, उत्तर, दक्षिणचारों दिशाओंमें लपेटे । हे देवदेवेशि ! इस प्रकार करनेसे उस मण्डलके एक सौ उनहत्तर कोष्ठक हो जायेंगे । उसके मध्यका कोष्ठक कर्णिका है, उसके बाहरके आठ कोष्ठक आठ दल कहे जाते हैं ॥ ३-६ ॥ दलानि श्वेतवर्णानि दलाष्टकमिहोच्यते । दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् । पीतरूपां कर्णिकां च कृत्वा रक्तं च वृत्तकम् ॥ ७ ॥ वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि । रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत् ॥ ८ ॥ सभी दलोंको श्वेत वर्णका बनाये । कर्णिकाको पीले रंगसे रंगना चाहिये और उसके चारों ओर लाल रंगका वृत्त बनाकर हे सुरेश्वरि ! [उस अष्टदल] कमलके दलोंके दाहिनी ओरसे आरम्भ करके दलोंके सन्धिस्थानको क्रमसे लाल तथा काले रंगसे रँगना चाहिये ॥ ७-८ ॥ कर्णिकायां लिखेद् यन्त्रं प्रणवार्थप्रकाशकम् । अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः ॥ ९ ॥ तदुपर्यमरेशं च महाकालं च मध्यतः । तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत् ॥ १० ॥ श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् । अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ॥ ११ ॥ कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः । एवं यन्त्रं समालिख्य रक्तं सद्येन वेष्टयेत् ॥ १२ ॥ कर्णिकामें प्रणवार्थको प्रकाशित करनेवाला यन्त्र लिखे । पुनः नीचेकी ओर पीठ और उसके ऊपर श्रीकण्ठ लिखकर उसके ऊपर अमरेश, मध्यमें महाकाल और महाकालके मस्तकके समीप दण्ड लिखकर फिर ईश्वरको लिखे । श्याम रंगसे पीठ और पीत रंगसे श्रीकण्ठको चित्रित करे । अमरेश और महाकालको क्रमशः लाल तथा काले रंगसे चित्रित करे । बुद्धिमान्को चाहिये कि दण्डको धूमवर्ण तथा ईश्वरको धवलवर्णका बनाये । इस प्रकार रंग भरकर बनाये गये यन्त्रको सद्योजात मन्त्रसे वेष्टित कर दे ॥ ९-१२ ॥ तदुत्थेनैव नादेन भिन्द्यादीशानमीश्वरि । तद्बाह्यपङ्क्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ॥ १३ ॥ हे ईश्वरि ! उस मन्त्रसे उठे हुए नादसे ईशानका भेदन करे और आग्नेय आदिके क्रमसे उनकी बाह्य पंक्तियोंको ग्रहण करे ॥ १३ ॥ कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि । शुक्लेनापूर्य वर्णादि चतुष्कं रक्तधातुभिः ॥ १४ ॥ आपूर्य तानि चत्वारि द्वाराणि परिकल्पयेत् । ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत् ॥ १५ ॥ हे सुन्दरि ! उन कोणोंके चार कोष्ठकोंको श्वेत तथा लाल धातुओंसे रँगकर चार द्वारोंकी परिकल्पना करे । उनके बगलके दोनों कोष्ठकोंको पीले रंगसे परिपूर्ण करना चाहिये ॥ १४-१५ ॥ आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके । अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम् ॥ १६ ॥ आग्नेय कोणके कोष्ठके मध्यभागमें पीतवर्णवाले चौकोर स्थानमें लालरंगके अष्टदल कमलका निर्माण करना चाहिये और उसकी कर्णिकाको पीले रंगसे रँगना चाहिये ॥ १६ ॥ हकारं विलिखेन्मध्ये विन्दुयुक्तं समाहितः । पद्मस्य नैर्ऋते कोष्ठे चतुरस्रं तदा लिखेत् ॥ १७ ॥ पद्ममष्टदलं रक्तं पीतकिंजल्ककर्णिकम् । शवर्गस्य तृतीयं तु षष्ठस्वरसमन्वितम् ॥ १८ ॥ तत्पश्चात् सावधान होकर उसके मध्यमें बिन्दुयुक्त हकार लिखे । उस कमलके नैर्ऋत्यकोणवाले कोष्ठकमें चौकोर [वृत्तवाला] रक्तवर्णका अष्टदल कमल बनाये और उसकी कणिकाओंमें पीला रंग भर दे । उसमें शवर्गके तीसरे अक्षर 'स' को छठे स्वर 'ऊ' से युक्त करके 'सू' लिखे ॥ १७-१८ ॥ चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् । एतद् बीजवरं भद्रे पद्ममध्ये समालिखेत् ॥ १९ ॥ हे भद्रे ! बिन्दु-नादसे युक्त चौदहवाँ स्वर 'औं'इस श्रेष्ठ बीजमन्त्रको पद्मके मध्यमें लिखे ॥ १९ ॥ पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् । कवर्गस्य तृतीयं तु पंचमस्वरसंयुतम् ॥ २० ॥ विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलङ्कृतम् । तद्बाह्यपङ्क्तित्रितये पूर्वादिपरितः क्रमात् ॥ २१ ॥ कोष्ठानि पंच गृह्रीयाद्गिरिराजसुते शिवे । मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम् ॥ २२ ॥ इसी प्रकार पद्मके ईशानकोणवाले कोष्ठकमें भी रक्तवर्णका वैसा ही कमल बनाये और उसमें कवर्गके तीसरे अक्षर 'ग' को पंचम स्वरसे युक्त करके 'गु' लिखे । उस वर्णके कण्ठभागमें बिन्दु लिखे । हे पार्वति ! हे शिवे ! इसकी बाहरवाली तीन पंक्तियोंमें पूर्वादि दिशाके क्रमसे चारों ओरके पाँच कोष्ठ ग्रहण करे और उसके मध्यमें कर्णिकाको पीला करे एवं वृत्तको रक्तवर्णका कर दे ॥ २०-२२ ॥ दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः । दलबाह्ये तु कृष्णेन रंध्राणि परिपूरयेत् ॥ २३ ॥ आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत् । पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत् ॥ २४ ॥ इसकी विधि जाननेवालेको चाहिये कि कमलदलोंको लाल बनाये और दलोंके बाहरवाले छिद्रोंको काले रंगसे भर दे । आग्नेय आदि चारों कोनोंको सफेद रंगसे परिपूर्ण करे । पूर्वकी ओर छः बिन्दुसे युक्त षट्कोणको काले रंगसे लिखे ॥ २३-२४ ॥ रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः । श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ॥ २५ ॥ चतुरस्रं क्रमात्तेषु लिखेद्बीजचतुष्टयम् । पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे ॥ २६ ॥ उकारमुत्तरे रक्तं मकारं पश्चिमे ततः । अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम् ॥ २७ ॥ सर्वोरर्ध्वपङ्क्त्यधः पङ्क्तौ समारभ्य च सुन्दरि । पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम् ॥ २८ ॥ दक्षिण कोष्ठकमें रक्तवर्ण त्रिकोण, उत्तरकोष्ठकमें श्वेताभ अर्धचन्द्र, पश्चिम कोष्ठकमें पीतवर्ण चतुरस्त्र अंकित करके क्रमश: चार बीज लिखे । पूर्वकोष्ठकमें शुक्लवर्ण बिन्दु, दक्षिणकोष्ठकमें कृष्णवर्ण उकार, उत्तरकोष्ठकमें रक्तवर्ण मकार और पश्चिम कोष्ठकमें पीतवर्ण अकार लिखे । हे सुन्दरि ! सबसे ऊपरकी पंक्तिसे नीचेवाली पंक्तिमें पीला, श्वेत, लाल और काला-ये चारों रंग भरे ॥ २५-२८ ॥ तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् । अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने ॥ २९ ॥ एवन्दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि । तद्बाह्यपङ्क्तौ पूर्वादिमध्यमान्तं विचित्रयेत् ॥ ३० ॥ पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् । आग्नेयादि समारभ्य रक्तं श्यामं सितं प्रिये ॥ ३१ ॥ रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् । दक्षिणाद्यं महेशानि पूर्वावधि समीरितम् ॥ ३२ ॥ नैर्ऋताद्यं तु विज्ञेयमाग्नेयावधि चेश्वरि । वारुणं तु समारभ्य दक्षिणावधि चेरितम ॥ ३३ ॥ वायव्याद्यं महादेवि नैर्ऋतावधि चेरितम् । सोमारद्यं परमेशानि वारुणावधि चेरितम् ॥ ३४ ॥ ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके । इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति ॥ ३५ ॥ एवं मण्डलमालिख्य नियतात्मा यतिः स्वतः । सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः ॥ ३६ ॥ उसके नीचे श्वेत, श्याम, पीत एवं रक्त रंगसे रैंगे । हे वरानने ! नीचेके त्रिकोणमें लाल, सफेद और पीला रंग भरे । हे ईश्वरि ! इस प्रकार दक्षिणसे प्रारम्भकर उत्तर दिशातक चित्रण करे । उसकी बाहरी पंक्तिमें पूर्वसे मध्यभागतक पीला, लाल, काला, श्याम, श्वेत, पीतवर्ण चित्रित करे । हे प्रिये ! रक्त, श्याम, श्वेत, लाल, कृष्ण, लाल-ये छ: रंग कहे गये हैं । आग्नेयकोणसे आरम्भकर [वायुकोणपर्यन्त] इन रंगोंका क्रमशः प्रयोग करे । हे महेशानि ! दक्षिणसे लेकर पूर्वपर्यन्त ये सब बताये गये हैं । हे ईश्वरि ! वैसे ही नैर्ऋत्यदिशासे लेकर आग्नेयदिशापर्यन्त जानना चाहिये, उसी रीतिसे पश्चिमदिशासे लेकर दक्षिणदिशापर्यन्त भी कहा गया है । हे महादेवि ! वायव्यसे लेकर नैर्ऋत्यदिशातक यह क्रम कह दिया । इसी प्रकार परमेशानि ! पूर्वसे लेकर पश्चिम दिशातक कहा गया । हे अम्बिके ! उत्तरसे लेकर वायव्यतक यह क्रम जानना चाहिये । हे पार्वति ! इस प्रकार मैंने मण्डलकी विधि आपसे कह दी । जितेन्द्रिय यतिको चाहिये कि स्वयं इस प्रकार मण्डल लिखकर ब्रह्ममें तत्पर हो सौरपूजा करे ॥ २९-३६ ॥ इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें संन्यासमण्डलविधिवर्णन नामक पाँचवाँ अध्याय पूर्ण हुआ ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |