Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ षोडशोऽध्यायः ॥

श्रीपराशर उवाच
इत्येष समासतस्ते यदोर्वंशः कथितः ॥ १ ॥
श्रीपराशरजी बोले- इस प्रकार मैंने तुमसे संक्षेपसे यदुके वंशका वर्णन किया ॥ १ ॥

अथ तुर्वसोर्वंशमवधारय ॥ २ ॥
अब तुर्वसुके वंशका वर्णन सुनो ॥ २ ॥

तुर्वसोर्वह्निरात्मजः वह्नेर्भार्गः भार्गाद्‍भानुस्ततश्च त्रयीसानुस्तस्माच्च करन्दमस्तस्यापि मरुत्तः ॥ ३ ॥
तुर्वसुका पुत्र वहिल था, वलिका भार्ग, भार्गका भानु, भानुका त्रयीसानु, त्रयीसानुका करन्दम और करन्दमका पुत्र मरुत्त था ॥ ३ ॥

सोऽनपत्योभवत् ॥ ४ ॥
मरुत्त निस्सन्तान था ॥ ४ ॥

ततश्च पौरवं दुष्यन्तं पुत्रमकल्पयत् ॥ ५ ॥
इसलिये उसने पुरुवंशीय दुष्यन्तको पुत्ररूपसे स्वीकार कर लिया ॥ ५ ॥

एवं ययातिशापात्तद्वंशः पौरवमेव वंशं समाश्रितवान् ॥ ६ ॥
इस प्रकार ययातिके शापसे तुर्वसुके वंशने पुरुवंशका ही आश्रय लिया ॥ ६ ॥

इति श्रीविष्णुमहापुरामे चुतुर्थांशे षोडशोऽध्यायः (१६)
इति श्रीविष्णुपुराणे चतुर्थेऽशे षोडशोऽध्यायः ॥ १६ ॥



GO TOP